________________
श्रीप्रवचनपरीक्षा २ विश्रामे ॥१०६ ॥
श्रीभगवतीश० ८-उ०८। एकादश परीषहास्त्वेवं- "वेअणिजे णं भंते !" कम्मे कति परीसहा समोअरंति ?, गो० ! एक्कारस परीसहा समोअरंति, तं०- "पंचैव आणुपुवी चरिआ सेजा वहे अ रोगे अ । तणफासे जलमेव य इक्कारस वेअणिजंमि ।। १ (१२ - ५८* ) ।। ” | इति श्रीभगवत्यां श०८ उ०८ । 'अण्णह'त्ति अन्यथा वेदनीयकर्मानुदयात् क्षुधाद्यभावाच्च भवस्थकेवलिनां सिद्धानां च परस्परं सर्वथा 'अन्तरं' भेदो न स्यात्, तच्च तवाप्यनिष्टं इति गाथार्थः || ४७|| अथ दृष्टान्तद्वारेण केवलिनो भुक्तिप्रसाधनाय गाथाद्वयमाह - जह जलसित्ता रुग्वा सचेअणा जाब आउअं हुंति । अहवा लहंति बुढि तयभावे नेव उभयंपि ॥ ४८ ॥ एवं केवलिणोऽविअ सरीरिणो भुत्तिविरहिआ देहे । धिरभावं बुढि वा लहंति नेवत्ति विष्णेअं ॥ ४९ ॥
यथा जलसिक्ताः वृक्षाः सहकारादयः यावदायुस्तावत्सचेतनाः- सजीवास्तद्वृक्षजीवा वृक्षसम्बद्धा भवन्ति, अथवा पुनर्वृद्धिं लभन्ते, शाखाप्रशाखापुष्पफलादिभिः समृद्धिभाजो भवन्ति, 'तदभावे' जलसेचनाद्यभावे तदुचिताहाराद्यभावे 'उभयमपि' सचेतनत्वं | वृद्धिमत्त्वं चेति न स्याद् उपनयनमाह एवं केवलिनोऽपि च शरीरिणो भुक्तिविरहिता 'देहे' शरीरे स्थितिभावं स्थैर्यं नैव लभन्ते, शरीरात्पृथक् भवन्तीत्यर्थः, तथा वृद्धिं साधिकवर्षाष्टकः कश्चित्संजात केवलः तदवस्थ एव भवेत्, शैशवावस्थमेव स्यात्, 'पुद्गलैरेव पुद्द्रलोपचय' इतिवचनात्, आहाराभावे ( सचेतनस्य ) तनोः शरीरस्य वृद्धेरसंभवादितिगाथार्थः ।। ४८-४९ ।। अथ नग्नाट विकल्पितं दूष| यितुं प्रथमं तद्विकल्पितमाह
Jain Education International
दुहि अनंतजीवे पासंतो केवली कह भुंजे १ । अण्णं ततखुत्तो असुईभावं समावण्णं ॥ ५० ॥ अनन्तजीवान् निगोदनारकादिगतान् छेदनभेदनाद्यनन्त वेदनापन्नान् 'पश्यन्' साक्षात् निरीक्षमाणः केवली कथं भुङ्क्ते ?, तथा
For Personal and Private Use Only
आहाराभावे भवदेहवद्व्यभावः
॥१०६ ॥
www.jainelibrary.org