________________
win
जगदुःखिताऽकारणं
श्रीप्रवचनपरीक्षा २विश्रामे ॥१०७॥
h me Am A ITR n ihilmiIANSIPAHINICHIKIMEDIA NIGHARATI
I NA mamifigestIn HINDIm
| विधानपि जीवान् पश्यन् केवली यद्याहारव्यापारवान् स्यात्तर्हि तजीवविषयकानुकम्पा कथं स्यात् ?, न कथमपीतिकृत्वा तज्जीवदुःखातः सन् केवली कवलान् मुखे न प्रक्षिपतीत्यर्थः,तथा 'अण्णंत त्ति अन्नपदमुपलक्षणपरं तेनानपानादिकं पुनः 'अणंतखुत्तो'त्ति अनन्तकृत्वः-अनन्तशो वारान् , अशुचिभावं' निन्द्यपर्यायं समापन्न-सम्यक्प्रकारेण निश्चयेनापन्नं, तादृशमशनादिकं पश्यन् कथं केवली तान् कवलान् भुते, न कथमपीत्यर्थः, इति केवलिभुक्त्यभावे विकल्पद्वयी दिगम्बराशयारूढेति गाथार्थः ॥५०॥ अथ प्रथमं विकल्पं दूपयितुमाह
तन्नो जुत्तं जेणं अणंतदुहकारणं भवे णाणं । पुश्विं निअदुहदुहिओ पच्छा जगदुहदुही जुगवं ॥५१॥ __ अनन्तदुःखविह्वलान् जीवान् प्रत्यक्षं पश्यन् केवली कथं भुङ्क्ते इति यदुक्तं तन्नो युक्तं, येन कारणेन 'ज्ञान' केवलज्ञानमनन्तदुःखकारणमापद्येत, तत्कथमित्याह-'पुचिंति केवलज्ञानोत्पत्तेः पूर्वकाले 'निजदुःखदुखितः' निजेन-आत्मीयेन दुःखेनार्थात्क्रमभाविना छेदनभेदनाद्युभृतेनासातवेदनीयेन दुःखित आसीत् , 'पश्चात् ' केवलज्ञानोत्पत्त्यनन्तरं 'जुगवं'ति युगपत्-समकालं 'जगदुःखदुःखी' जगतां-चतुर्दशरज्ज्वात्मकलोकवर्तिनां प्राणिनां यानि दुःखानि तैर्दुःखी-दुखभाग जातः, तन्निदानं तु केवलज्ञानमेव संपन्न, तच्च न कस्याप्यभिमतं, केवलज्ञानस्यानन्तानन्दहेतुत्वाद् , आस्तां केवली वीतरागः, छमस्थवीतरागोऽप्यनन्तसुखभाग् भवति, यदुक्तं-"जं च कामसुहं लोए, जं च दिवं महासुहं । वीअरायसुहस्सेयं, अंतभागंपि नग्घइ ॥१॥"त्ति। किंचकेवली वीतरागः दुःखातं जीवं पश्यन् तदनुकम्पया स्वयमपि दुःखातः स्यात् तत्र निदानं किं रागो वा भयं वा?, नायो, वीत| रागत्वस्यैव हानेः, नापि भयं, मोहनीयस्य समूलमुन्मूलितत्वात् तत्प्रकृतिभूतस्य भवस्याभावात् , तस्मानमाटरटितमकिश्चित्कर
॥१७॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org