SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अवखतादुगेतिहेतुः श्रीप्रवचनपरीक्षा २विश्राम ॥१०३॥ कण्ठया, आगतानां स्त्रीणां 'प्रथमम्' आदितः 'इह त्वदीयमठादौ 'मेण्टुं' मेहनं पुरुषलिङ्गं तस्य निरीक्षणं भवति, द्वयोरपि नग्नत्वात् , मेण्ट्रदर्शनं महामोहो, महामोहनीयोदयहेतुत्वाद् , अयं भावः-जगत्स्वाभाव्यादनादिकालाभ्यासाच्च नाग्न्ये सति स्त्रीपुरुषयोः प्रायो गुह्यप्रदेश एव दृष्टिपातो भवति, नान्यत्रेति प्रतीतिः सर्वजनानामनुभवसिद्धव, पुरुषलिङ्गदर्शने च स्त्रीणां वेदोदयान्महामोहः अतः स्त्रीणां मुक्त्यभावस्त्वदर्शने युक्त एवेतिगाथार्थः ॥४०॥अथ वस्त्रधरणे अधरणे च द्वयोरपि लाभमलाभं च दर्शयन्नुपसंहारमाहतम्हा तुमंपि वत्थं इत्थीअणुकंपयाइ जइ धरसि । ता दुण्हवि निवाणं अन्नह दुण्हंपि दुग्गइओ ॥४१॥ 'तस्मात् प्रागुक्तयुक्तिनिचयात् यदि 'स्त्रीष्वनुकम्पया' मल्लिङ्गदर्शनतो मा स्त्रीजनस्य मोहोदयो भवत्विति स्त्रीजनविषयककृपया त्वं वस्त्रम् , अपिशब्दाद्यथा स्त्रियो वस्त्राणि विभ्रति तथा त्वमपि वस्त्रं धरिष्यसि 'ता' तर्हि 'दुण्हंपि' द्वयोरपि स्त्रियास्तव च 'निर्वाण' मुक्तिः स्यादेव, अन्यथा-वस्त्राधरणे द्वयोरपि 'दुर्गतयों' नारकादिकुत्सितगतयो, बहुवचनमनन्तशस्तत्र गमनसूचकम् , अत एव भवभ्रमणमित्यर्थः,स्त्रीणां दुर्गतयस्तु त्वल्लिङ्गदर्शनेन वेदोदयाद् दुर्ध्यानात , तव तु स्त्रीदुर्गतिहेतुमार्गप्ररूपकत्वेनेति | | गाथार्थः ॥४१॥ अथ नग्नाटनाटकमाश्रितानां मूढत्वमाविष्कुर्वन्नाह न मुणइ मूढो लोओ धम्मं पुच्छंतमेव जो गुज्झं । दसेइ तस्स पासे धम्मो ता कहिमहम्मो अ॥४२॥ 'मूढः' अज्ञानावृतो लोकः, हे नग्नाट ! त्वन्मार्गाश्रितो लोको न जानाति यत् को धर्मो मुक्तिसाधक इति, 'धर्म' धर्ममार्ग च | 'पृच्छन्तमेव' प्रश्नं कुर्वन्तमेव यः प्रष्टव्यपुरुषो गुरुलक्षणो 'गुह्यं गोपनीयलिङ्गोपस्थादिकं दर्शयति तस्य पार्श्वे यदि 'धर्म' धर्मप्राप्तिः स्यात् 'ता' तहि 'कहिं ति कुत्रान्यत्राधर्मः १, न क्वापि, किंतु त्वत्समीप एवाधर्मः, हे नग्नाट! त्वमेव पापात्मा मूर्तिमा amittan: PMISARTAINMalini MARHIRAIMARATHIMILAINEDAINIRUNAINITIRALIAHINIRAHASANPATIMILLIA ॥१० In Education t o For Personal and Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy