SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे ॥ १०१ ॥ तम्हा केवलणाणं णाणावरणक्वयंमि सो अ पुणो । सुहझाणा सुहझाणं पायं बाहाविरहिअस्स ||३६|| बाहा पुण णेगविहा तथभावोऽणेगकारणेहिं भवे । कत्थवि असणाईहिं कत्थवि वत्थाहवत्थूहिं ||३७|| इअ विष्णेयं धम्मोवगरणअइरितु परिगहो होइ । अण्णह असणाईहिं सरीरपोसो तुमं दोसो ॥३८॥ यस्मात्प्रागुक्तयुक्तिसमूहात् न वस्त्रं केवलज्ञानावरणं तस्मात् केवलज्ञानं केवलज्ञानावरणस्य-ज्ञानावरणीयमूलप्रकृतिविशेषस्य क्षये- सर्वथाऽपगमे सति संभवति, 'सोऽपि ' ज्ञानावरणीय कर्मक्षयोऽपि 'शुभध्यानात् ' शुक्लध्यानविशेषात्, शुक्लध्यानमपि 'प्रायो' बाहुल्येन 'बाघाविरहितस्य' शरीरादिपीडाशून्यस्य मनुजस्य संभवति, प्रायोग्रहणात् स्कन्दलाचार्यशिष्यगजसुकुमारादीनामन्यथा दर्शनेऽपि न दोष इति गाथार्थः || ३६ || अथ द्वितीयगाथामाह बाधा पुनरनेकधा - अनेकप्रकाराः स्युः, तदभावोऽपि - अनेकविधबाधानामभावोऽपि अनेककारणैर्भवेत्, प्रति कार्य कारणानामपि मिन्नत्वात्, तदेव स्पष्टयति- 'कत्थवि' त्ति कुत्रचित् क्षुधादिपीडिते पुरुषविशेषे क्षुधाजन्यपीडाया अभावोऽशनादिभिरेव स्याद्, ओ| दनादीनामेव तत्कारणत्वात्, एवं पिपासाजन्य बाधा पानीयेनैवोपशाम्यति, न पुनरोदनादिना, तथा शीतातपदंशमशकादिजन्यायाः बाधाया वस्त्रादिभिरेवोपशमः, ननु शीतातपादिपीडानिवारणं वस्त्रादिप्रावरणं तावद्युक्तं, कथं पुनः पात्रमपीतिचेद्, उच्यते, मिक्षा| चर्यां गतः साधुरुष्णमन्नं पानं वाऽवाप्य पाणिना भुञ्जानः पिबंश्च पाणिमुखहृद्दाहादिना बाध्यते, तन्निवारणं तु पात्रेणैव भवेत्, | यतस्तथाविधमन्नं पानं वा पात्रेणैवोपादाय संयमाबाधया भुङ्क्ते पिबति च, पात्रमन्तरेण तादृशमनादिकं ग्रहीतुमक्षमस्तत्परित्यज्यान्यदन्नादिकमन्वेषयतोऽलाभे संयमबाधा स्याद्, भूयसा कालेन लामेऽपि स्वाध्याय ध्यानादिः उपहन्येत, असंयमनिवारणं तु Jain Education International For Personal and Private Use Only वस्त्रस्य शुभध्यानहेतुता ॥ १०२ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy