SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥१००॥ TONG स्त्रीणां केवलज्ञानं न स्यादिति दिगम्बराकृतकदल्याः कृपाणकल्पां गाथामाह जइ चीवरवरिआणं न केवलं तं हवे तयावरणं । उप्पण्णंपि कयाह चीवरजोगे विलिइज्जा ॥ ३४ ॥ यदि चीरावृतानां - वस्त्राच्छादितशरीराणां केवलज्ञानं न भवेत्, तहींति गम्यं, तर्हि तद् वस्त्रं परिहितवस्त्रं ' तयावरणं' तितस्य केवलज्ञानस्यावरणम् - आच्छादनकारणं संपद्येत, केवलज्ञानावरणीयकर्मतया परिणतं यद्यदावृणोति तत्तस्यावरणं, यथा श्रुतज्ञान| मावृण्वन् श्रुतज्ञानावरणीयकर्म्म प्रकृतिरिति 'यद् विद्यमानं सत् यस्योत्पत्तिं प्रतिबध्नाति तत्तथाभूतं सत्तदुत्पन्नमपि विनाशयती 'ति| कृत्वा उत्पन्नमपि केवलज्ञानं कदाचिच्चीवरयोगे - वस्त्रसम्बन्धे विलीयेत - विनाशं प्राप्नुयात्, तच्च न संभवति, अतो दिगम्बराकृत| मालजालमिति गाथार्थः ||३४|| अथ प्रागुक्तमनिष्टमपीष्टापच्या स्वीकुर्वन्तं क्षपणकं दूषयितुमाह एवं चिअ कप्पिज्जइ चीवरवरिआण जइ न सुअणाणं । घोसितं हुज्जा लुपिज्जा अहव भणिअपि ||३५|| चिअशब्दोऽप्यर्थे, एवमपि कल्प्येत यदि सवस्त्रस्य परिहितवस्त्रस्य घोष्यमाणमपि श्रुतज्ञानं न भवेद्, अथवा भणितमपि वस्त्रवतो विलुप्येत, श्रुतज्ञानस्यापि ज्ञानत्वेन केवलज्ञानसाम्यात्, केवलज्ञानस्येव श्रुतज्ञानस्याप्युत्पत्तिविनाशयोरविशेषात् ननु श्रुतज्ञानं तावत् क्षायोपशमिकं, तस्य सवस्त्रस्यापि संभवो न विरुध्यते, केवलज्ञानं तु क्षायिक, तच्च वस्त्रादौ ममतावतः कथं स्यादितिचेत्, मैवं, देहेऽपि तथासंभवात् देहिमात्रस्यापि तदभावापत्तेः, तस्माद् ज्ञानस्य स्वस्वावरणापगमे खखोत्पत्तेर्बलीयसाऽपि पराकर्तुमशक्तेः श्रुतज्ञानादिवत् केवलज्ञानमपि सवस्त्रस्य भवत्येव, वस्त्रस्य च ज्ञानावरणात्मकत्वाभावादिति गाथार्थः ।। ३५ ।। अथ वस्त्रादिधर्मोपकरणं न केवलं केवलज्ञानावरणमेव न भवति, अपितु केवलज्ञानोत्पत्तावुपकारकमपीति गाथात्रयेण दिदर्शयिषुः प्रथमगाथामाह Jain Education International For Personal and Private Use Only ZZZZZ/GP/ वस्त्रस्य ज्ञानानावरणता 1120011 www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy