________________
श्रीप्रवचनपरीक्षा २विश्रामे
॥१००॥
TONG
स्त्रीणां केवलज्ञानं न स्यादिति दिगम्बराकृतकदल्याः कृपाणकल्पां गाथामाह
जइ चीवरवरिआणं न केवलं तं हवे तयावरणं । उप्पण्णंपि कयाह चीवरजोगे विलिइज्जा ॥ ३४ ॥
यदि चीरावृतानां - वस्त्राच्छादितशरीराणां केवलज्ञानं न भवेत्, तहींति गम्यं, तर्हि तद् वस्त्रं परिहितवस्त्रं ' तयावरणं' तितस्य केवलज्ञानस्यावरणम् - आच्छादनकारणं संपद्येत, केवलज्ञानावरणीयकर्मतया परिणतं यद्यदावृणोति तत्तस्यावरणं, यथा श्रुतज्ञान| मावृण्वन् श्रुतज्ञानावरणीयकर्म्म प्रकृतिरिति 'यद् विद्यमानं सत् यस्योत्पत्तिं प्रतिबध्नाति तत्तथाभूतं सत्तदुत्पन्नमपि विनाशयती 'ति| कृत्वा उत्पन्नमपि केवलज्ञानं कदाचिच्चीवरयोगे - वस्त्रसम्बन्धे विलीयेत - विनाशं प्राप्नुयात्, तच्च न संभवति, अतो दिगम्बराकृत| मालजालमिति गाथार्थः ||३४|| अथ प्रागुक्तमनिष्टमपीष्टापच्या स्वीकुर्वन्तं क्षपणकं दूषयितुमाह
एवं चिअ कप्पिज्जइ चीवरवरिआण जइ न सुअणाणं । घोसितं हुज्जा लुपिज्जा अहव भणिअपि ||३५|| चिअशब्दोऽप्यर्थे, एवमपि कल्प्येत यदि सवस्त्रस्य परिहितवस्त्रस्य घोष्यमाणमपि श्रुतज्ञानं न भवेद्, अथवा भणितमपि वस्त्रवतो विलुप्येत, श्रुतज्ञानस्यापि ज्ञानत्वेन केवलज्ञानसाम्यात्, केवलज्ञानस्येव श्रुतज्ञानस्याप्युत्पत्तिविनाशयोरविशेषात् ननु श्रुतज्ञानं तावत् क्षायोपशमिकं, तस्य सवस्त्रस्यापि संभवो न विरुध्यते, केवलज्ञानं तु क्षायिक, तच्च वस्त्रादौ ममतावतः कथं स्यादितिचेत्, मैवं, देहेऽपि तथासंभवात् देहिमात्रस्यापि तदभावापत्तेः, तस्माद् ज्ञानस्य स्वस्वावरणापगमे खखोत्पत्तेर्बलीयसाऽपि पराकर्तुमशक्तेः श्रुतज्ञानादिवत् केवलज्ञानमपि सवस्त्रस्य भवत्येव, वस्त्रस्य च ज्ञानावरणात्मकत्वाभावादिति गाथार्थः ।। ३५ ।। अथ वस्त्रादिधर्मोपकरणं न केवलं केवलज्ञानावरणमेव न भवति, अपितु केवलज्ञानोत्पत्तावुपकारकमपीति गाथात्रयेण दिदर्शयिषुः प्रथमगाथामाह
Jain Education International
For Personal and Private Use Only
ZZZZZ/GP/
वस्त्रस्य ज्ञानानावरणता
1120011
www.jainelibrary.org.