SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीप्रबवनपरीक्षा २ विश्रामे ॥ ९९ ॥ परिग्रहतयेतिगम्यं, ननु पिच्छिकादिकमस्माकं धर्मोपकरणमेव कथं परिग्रह इति चेत् चिरं जीव, धर्मोपकरणं परिग्रहो न भवतीति वाणस्त्वमपि स्वयमेव तटादर्शिशकुन्तपोतन्यायेनास्मत्पक्षमेवाश्रितः, शकुन्तपोतन्यायस्त्वेवं - महासमुद्रमध्यगतपोतकूपस्तम्भात् कश्चित् शकुनिपोत उड्डीनः सन् अन्यत्तटादिकमुपवेशनस्थानमनुपलभमानः पुनः तत्रैवागत्योपविशति, एवं त्वमपि पिच्छिकाक| मण्डलु देहप्रभृतिकं बिभ्राणः श्वेताम्बरेण ध्रियमाणचतुर्द्दशोपकरणवत् तवापि परिग्रहो नवेति केनचिदुदीरितः अन्यत्प्रत्युत्तरदानासमर्थो धर्मोपकरणं परिग्रहो न स्यादिति ब्रूषे, परमस्माकं यान्युपकरणानि तानि शुभध्यानादिविघातकानां शीतातपादीनां निवा| रकत्वेनासंयमहेतु धूमकेतुप्रभृतिसेवापराकर्तृत्वेन प्रागुक्तप्रकारेण त्रसादिजन्तुरक्षाहेतुत्वेन च तीर्थकृदुपदिष्टत्वात् संयमपरिपालनहेतवोऽसंयमनिवारकाणि च तव तु पिच्छिकाकमण्डलुप्रभृतीनि न संयमहेतवो नाप्यसंयमनिवारकाणि, प्रत्युत तीर्थकृदनुपदिष्टत्वेना| धिकरणरूपत्वादसंयमहेतव एव, तीर्थकृदनुपदिष्टत्वं तु तवापि सम्मतं, न हि पिच्छिकादिकं तीर्थकृद्भिरुपदिष्टं धृतं वा, न चास्तामन्यद्यत्किञ्चित् परं पिच्छिका तावत् प्रमार्जनाहेतुतयैव धियते सा कथमधिकरणमिति चेद्, उच्यते, न हि पिच्छिका तावत्केवलप्रमार्जनहेतव एव धियते, किंतु साधुलिङ्गधिया, न च पिच्छिका साधुलिङ्गम्, अन्यतीर्थिकानामपि पिच्छिकाया दृश्यमानत्वात्, तस्मा| तीर्थकृदनुपदिष्टत्वेनाधिकरणमेव पिच्छिका, किंच- पिच्छिका यदि साधुलिङ्गं स्यात्तर्हि दिगम्बरमात्रस्यापि युज्यते, यथा श्वेताम्बरनाममात्रस्यापि रजोहरणमुखवत्रिके, न चैवं दिगम्बरमते, यतो दिगम्बराणां चचारो भेदाः, तथाहि - काष्ठासङ्घो मूलसङ्घो गोप्यसङ्घो माथुरसङ्घचेति, तत्र मूलसझे मयूरपिच्छिका काष्ठास च चमरीगोवालपिच्छिका गोप्यसङ्के च पिच्छिका गोप्या, माधु| रसङ्गेन च मूलतो पिच्छिका नातेति तेन दिगम्बरस्य पिच्छिकाकमण्डलुदेहादिकं परिग्रह एवेतिगाथार्थः ॥ ३३ ॥ अथ वस्त्रावृतानां Jain Education International For Personal and Private Use Only पिच्छिकादेरलिंगता ॥ ९९ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy