SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा पात्र संयमोपकारक रविश्रामे ॥९७॥ BHUMIHIRamahINITIMILEEDINThumilititiRITERIAL ऽमिद्रूयमाणस्याग्निकायादिसेवा, अतोऽनेकत्रसस्थावरविराधना,महिकाधूम्रिकादिपातेऽप्कायविराधना चेत्यादिदोषाः अनावृतश्चरीरस्य संभवन्ति, तनिवारणं च न वस्त्रैविना कर्तुं शक्यं, तथा ज्वरादिबाधिततनोस्तव वस्त्राभावे गुप्तदवरकसद्दरिकादिगृहस्थोपकरणप्रतिषेवणया गृहस्थतुल्यतैव,प्रतिलेखनानहें गुप्तदवरकसद्दरिकादौ त्रसाधनेकजन्तुविराधना प्रवचनमालिन्यं चेत्यादिदोषप्रतिहतिनिमित्वंकल्पत्रिकं,यदागमः-"किं संजमोवयारं करेइ वत्थाइ जइ मई सुणसु। सीअत्ताणं ताणं जलणतणगयाण सत्ताण।।१।।" (२५७५) इत्यादि श्रीविशेषावश्यकभाष्ये तद्वृत्तौ च सविस्तरमितिबोध्यम् । अथ पात्रैः संयमोपकारमाह-"पत्तेहिन्ति पात्रैःपतगृहादिभिः तथैव-वस्त्रवदेव त्रसस्थावरयतना विज्ञेया, तथाहि पात्राभावेन भोजने क्रियमाणे सस्निग्धा दुग्धादिबिन्दवोऽधः पतन्ति,तत्र च पृथिव्यां विद्यमानानां पिपीलिकादीनां सद्य एवोपघातः अविद्यमानानां च तद्गन्धाधाकृष्टानां पिपीलिकादीनां समागमनं, समुदिताश्च जन्तवः कथंचित् कस्यापि पादादिन्यासेन सद्य एव युगपद्विपद्यन्ते, मक्षिकाद्यर्थमागतेभ्यो गृहगोधादिभ्यश्च सकाशात् महानसंयमः, कुण्डिकादिमण्डापनेऽपि गृहस्थभाजनव्यापारणमसंयम एव, यतस्तदप्रतिलेखितं सत् पनककुन्थ्वादिसंसक्तं सचित्तजलादिसंसक्तं वा भवेत् , कदाचिदेवं दोषाभावे न मनसः शुद्धिः, तद्यापारानन्तरं च पतितविन्दुनां गृहस्थकृतायां परिष्ठापनायां प्रागुक्तप्रकारेण जन्तूनामुपघातः, सचित्तजलादिना पात्रधावनादौ बहवो दोषा इति कुण्डिकादिकं नासंयमनिवारकं, प्रत्युत केवलमसंयमहेतुरिति, अत एव गृहस्थपात्रभोगोऽनगाराणामयोग्य एव, यदागमः-"कंसेसु कंसपाएसु, कुडमोएसु वा पुणो । भुंजतो असणपाणाई, आयारा परिभस्सइ ॥ १॥” इत्यादि श्रीदशवकालिके (२५९) तथा पाणिभ्यां भुञ्जानस्य द्राक्षादिगतत्रसजन्तु. यतना न स्यात् , तथा गलनादिभयेन दध्यादिद्रववस्तुनि त्वरित२ भुज्यमाने तद्गतजन्तुविपत्तिः स्यात् , तथा पात्राभावेऽशना-1 Ramai HamarSitamari m I ANRAINIDHIRAINM matitlemmand8010Nimilan MIIth MMITTARATHI ANIMALSINAL - nimite: Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy