________________
PH
श्रीप्रवचनपरीक्षा २विश्रामे ॥९६॥
वलं जीवरक्षाहेतुः
MITRA TIMINSaliHISA
ITS HRIRANIBHAIRAMAILOPARISHALADAINALI
Mahim l anti
वावस्थानं युक्त, लोके तव तासां चातिनिन्दनीयत्वाद्, यदि वेश्याजनोपान्तोपवेशने ब्रह्मवतगुप्तिभङ्ग इति चेत् तर्हि नवमगुणस्थानकं यावत्साधूनामपि वेदोदयो नियतः, तीथं तावत् षट्सप्तमगुणस्थानकवर्तिसाध्वायत्तं, तेषां च साधूनां नग्नभावे तथाविधस्त्रीदर्शनादिना सागारिकविकृतिसंभवे कथं ब्रह्मचर्यगुप्तिस्थितिः?, कथं वा न प्रवचनोड्डाह इत्यादिकं नेत्रनिमीलनपुरःसरं रहसि विचार्य हे आर्य! परिहरानार्यचिहू,किंच-लोकभाषया यदभाष्यं सागारिकादिकं तन्नीचजातीयोऽपि क्वचित्क्रोधाविष्टोऽपि कलहादौ प्रयोजनविशेष प्रतिपक्षं प्रत्यप्रीतिहेतवे वाग्गोचरीकुर्वन् दृष्टः, परमुक्तकारणाभावेऽपि कुलस्त्रीजनस्यापि दृग्गोचरीकारयंस्तु त्वमेव धृष्टो दृष्ट इत्यलं तव कुविकल्पनया। एवं सत्यपि यदि तव वस्त्रन रुचिस्तर्हि पिच्छिकावत् मयूरपिच्छग्रथिततथाविधरचनया सद्दरिकया वा तथाविधकाष्ठकौपीनेन वा सागारिकं तु संगोपनीयमेवेतिभावः।। ___अथ जीवरक्षाहेतुत्वेन यथा संयमोपकारकं वस्त्रं तथाऽऽह-'तसथावराणं'ति बसस्थावराणां यतना-रक्षा वस्त्रैरेव स्याद् , वस्त्रपदमुपलक्षणपरं तेन वस्त्रनिष्पन्नरजोहरणादिपरिग्रहः, रजोहरणादिमित्रसस्थावरजन्तुयतना स्यादित्यर्थः, तथाहि-शयनोपवेशनादिकियां चिकीर्षुणा शय्यासनादिगतकुन्थुपिपीलिकादिप्रमार्जनं तावदवश्यं कर्त्तव्यम् , अन्यथा तद्गतानेकत्रसघातस्तवापि सम्मतः, तत्प्रमार्जनं च रजोहरणेनैव कर्तुं शक्यते, यद्यपि प्रमार्जननिमित्तं पिच्छिका त्वयाऽप्यभ्युपगता परमुभयकालं विरलीकृत्य प्रतिलेखयितुमशक्यत्वेन तद्गतपनकादिविराधनासंभवात् सैवायतनाहेतुः, तथाऽनावृतमुखेन भाषमाणस्य मुखविवरे सहसा मक्षिकादिप्रवेशस्तवाप्यध्यक्षसिद्धः, सर्वज्ञवचनप्रामाण्याच्च मुखनिर्गतनिःश्वासादिना असंख्यातजीवात्मकबादरवायुकायिकविराधना मुखवखिकामन्तरेण निवारयितुं न शक्यते, दंशमशकादिमिरमिद्रूयमाणस सहसा कण्डूयनादि कुर्वतो दंशमशकादिविराधना, शीतादिना-
ASHPASTUDHAI MULSHAMATIPATIMILSIMDISHALL
A
॥९६ ।।
HAIL
For Per
and Private Use Only
www.jainelibrary.org