SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे ॥ ९३ ॥ स्वप्रभामण्डलाच्छादितदेहाः ज्ञानातिशय संपत्समन्विताः निश्छिद्रपाणिपात्राः जितपरिषहा" इत्यादि, एवरूपादिगुणा अनन्यतुल्या | ज्ञातव्याः । इति श्रीधर्मसंग्रहणीवृत्तौ । तस्माद्वस्त्रपरिधानादिनिमित्तं जुगुप्सनीयावाच्यावयवादिदर्शनं तच्च तीर्थकृतां न संभवति, | अतः 'कारणाभावात्कार्यस्याप्यभाव' इति न्यायात् वस्त्रापरिधानेऽपि तीर्थकृतां न लोकानुवृच्यादिगुण विलोपः, लोकैरपि वस्त्रपरिधानं मुख्यवृत्या असभ्यावयवगोपननिमित्तमेव क्रियते, मर्च्यामर्श्वलोकस्य लज्जया लञ्जनीयावयवगोपनस्वभावाद्, अत एव लोकाभाणकोऽपि - 'अहो अघो ननस्य मस्तके मौलिक मिति, शरीरादिशोभा तु क्षुधाद्युपशमनाय क्रियमाणे भोजने अशनाद्यनुसारेण | माधुर्याद्यास्वादशरीरपुष्ट्यादिवि गुह्यावयवेष्वाच्छादितेषु स्वत एव सिद्ध्यति, न पुनः प्रथमतस्तदर्थमेव प्रवृत्तिः, पात्रभोगस्तु तीर्थ| कृतां सर्वथा न स्यात्, यतस्ते यच्छिद्रपाणयस्तीर्थकराः तेषां भोजनावसरे चन्द्रादित्यों यावच्छिखा गच्छति, न बिन्दुरप्यधः पतति, चतुर्विधज्ञानबलाच्च संसक्तासंसक्तमन्नं सत्रसमत्रसं च जलादिकं ज्ञात्वा निर्दोषमेवोपाददते इति तीर्थकृतां पात्रधारणे न कश्चिद् गुणः, ये तु जिनकल्पिकास्ते द्विविधा - लब्धिमन्तोऽलब्धिमन्तत्र तत्र लब्धिरपि कर्मणां क्षयोपशमवैचित्र्यवशात् केषांचित्पात्रविषया केषांचिद्वस्त्रविषया केषांचिदुभयविषयाऽपि तत्रापि येषां पात्रविषया तैः पाणिपात्रतयैव भवितव्यं, पाणिनैवाशनादावाद्द्रीयमाणे न कापि संयमविराधना, नापि प्रवचनजुगुप्सा, प्रत्युत प्रवचनप्रभावना, सा च लब्धिरेवं "माइज घडसहस्सा अहवा मायंति सागरा स। आरिसलद्धीओ सो पाणिपडिग्गही होइ ॥ १ ॥ त्ति, ते च वस्त्राणि विभ्रति, तद्विषयकलब्ध्यभावात्, तत्रापि सामर्थ्यानुसारेण | कश्चिदेकं कल्पं कश्चिद् द्वौ कश्चित्रीन् कल्पान् बिभर्ति तेषां च क्रमेण रजोहरणमुखवत्रिकोपेतानि त्रीणि चत्वारि पञ्च वोपकरणानि भवन्ति, एवं वस्त्रानावृता अपि ये नशा न दृश्यन्ते ते वस्त्रविषयकलब्धिमन्तः, वस्त्रजन्य कार्यविषयकलब्धिभाज इत्यर्थः तेषां Jain Education International For Personal and Private Use Only जिनजिनकल्पिकस्वरूपं ॥ ९३ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy