________________
आहारवस्त्रं वस्त्रपात्रगुणाश्च
श्रीप्रव
ता जह देहं संजमभारुबहणत्थमन्नमाईहिं । पोसिज्जा तह नियमा पालेहिवि चीवराईहिं ॥२९॥ चनपरीक्षा यस्मात्प्रागुक्तं तव प्रमाणं 'ता'तस्मात् यथा देहं-शरीरं संयमभारोद्वहनार्थमन्नादिभिः-अशनपानखादिमस्वादिमैः पुष्णीयाः २विश्रामे' तथा 'चीवराईहिन्ति चीवरादिभिः, आदिशब्दात् यावच्छरीरोपष्टम्भकं वसतिपात्रादिकं तस्यापि ग्रहः, वस्त्रपात्रवसत्यादिमिः ॥९ ॥ संयम पालयेत्यर्थः, अन्यथा अशनादिकमपि शरीररक्षानिमित्तं न ग्राह्यम् , अयं भावः-यथा तवेष्टसंयमहेतुशरीरस्य स्थितिहेतवे |
अशनादिकं गृह्यते तर्हि तादृक्शरीरपरिपालननिमित्तेन वस्त्रादिना किमपराद्धं ,तस्माद्यथा क्षुधादिपीडितं शरीरं न संयमहेतुस्तथा शीतातपदंशमशकादिपीडितमपीति बोध्यमितिगाथार्थः ॥२९।। अथ वस्त्रपात्रधरणे ये गुणास्तान् दर्शयितुमाह
लोआणुवत्तिधम्मो लज्जा तह बंभचेररक्खा य । सीआतवदंसमसगपीडारहिअस्स सज्झाणं ॥३०॥
वस्त्रधरणे लोकानुवृत्तिधर्मः प्रथमो गुणो लोकप्रतीतः, तत्र लोको-मयंलक्षणो, नतु तिर्यगादिः, तस्य लादिनिमित्तं वस्त्रधारणासंभवात् , तस्यानुवृत्तिः-अनादिसिद्ध आचारस्तल्लक्षणो धर्मः सत्यापितः स्यादित्यर्थः, तथा 'लजत्ति लज्जा-व्रीडा संयमो वा, अर्थात्सा रक्षिता भवेद् , वस्त्राभावे च रासभादिवदविशेषेण लज्जाराहित्यं स्यात् , लज्जारहितस्य च कुतश्चारित्रपालनं ?, चकारः समुच्चयार्थः, ब्रह्मव्रतरक्षा च-वस्त्रावृतस्य लज्जया ब्रह्मचर्य स्याद् , अन्यथा वडवादर्शनात् वाडवस्येव स्त्रीदर्शनाल्लिङ्गादिविकृत्या प्रवचनोड्डाहाब्रह्मसेवादयो बहवो दोषाः सर्वजनविदिता भवेयुः, तथा वस्त्रैः शीतोष्णकालादिषु शीतातपदंशमशकैर्या पीडा तया रहितस्य सद्ध्यान-धर्मशुक्ललक्षणं स्याद् , वस्त्राभावे च क्षुधाद्यनाकुलस्यापि दुर्ध्यानम्-अग्नितृणादिसेवाभिप्रायेण दुर्ध्यानं, तत्सेवने चासंयमः स्यादितिगाथार्थः ॥३०॥ अथ पुनरपि गुणानाह
॥९१॥
For Pemand Private