________________
श्रीप्रवचनपरीक्षा
रविश्रामे
॥९
॥
M
NI
|पष्टम्भकं वस्त्रं धर्मोपकरणं, न मूर्छाविषयः परिग्रहः, किंतु तदतिरिक्तस्यासंयमनिमित्तस्य मूर्छाविषयत्वमागमे प्रतीतं, तदेव परि- अबलांबरग्रहः, नहि प्रासादनिष्पादनाभिप्रायवता श्रावकेण तदर्थमेव स्वायत्तीकृतं कनकादिकं स्वगृहकरणोद्यतेन स्वायत्तीकृतस्वापतेयेन परिभोगः समानं त्वयाऽपि गीयते,यतस्तयोरेकं धमोपष्टम्भकत्वेन मोक्षाङ्गमपरं चाश्रवहेतुत्वेन संसारकारणम् ,एवं वस्त्रमपि संयमार्थमसंयमार्थ च गृहीतं न समस्वभावं भवति,नन्वेवं कनकादिकस्यापरिग्रहत्वापल्या जगति किमपि परिग्रहो न स्यात् , तथात्वे च दत्ताञ्जलिरेव परिग्रहापरिग्रहविचारायेतिचेद् अहो वैदग्ध्यं भवतः, नहि वयं स्वरूपेण सत् कनकादिकं किमपि वस्तुजातं परिग्रहमपरिग्रहं वा ब्रूमः, किंतु यन्मू विषयः संयमोपघाति तत्परिग्रहः, यदागमः-तम्हा किमत्थि वत्थु गंथोऽगंथो व सबहा लोए?। गंथोऽगंथो व मओ मुच्छममुच्छाहिं निच्छयओ॥१॥ वत्थाइ तेण जं जं संजमसाहणमरागदोसस्स । तं तमपरिग्गहो चिअपरिग्गहो जंतदुवघाई ॥२॥" (२५७३-४) इति श्रीविशेषावश्यकभाष्ये, एतट्टीकैकदेशो यथा-तस्मात् किं नाम तद्वस्त्वस्ति लोके यद् आत्मस्वरूपेण सर्वथा ग्रन्थोऽग्रन्थो वा ?,नास्त्येवैतदित्यर्थः, ततश्च 'मुच्छा परिग्गहो वुत्तो,इअ वुत्तं महेसिणे'ति वचनात् यत्र वस्त्रदेहाहारकनकादौ मूर्छा| V समुत्पद्यते तनिश्चयतः-परमार्थतो ग्रन्थः, यत्र तु सा नोपजायते तदग्रन्थ इति । एतदेव व्यक्तीकरोति-'वत्थाइ तेणे'त्यादि, | तेन तस्मात् , शेषं सुगममिति श्रीवि० टीका । तथा च वस्त्रपात्रादिकं संयमोपकारक, तथाऽत्रैवाऽग्रे वक्ष्यते इति, गाथार्थः ।।२८॥ |अथानन्तरगाथायां स्त्रीणां वस्त्रपरिभोगः किं तीर्थकदुपदिष्टो वेत्यादिविकल्पत्रयीत्रिशूल्याहतो व्याकुलीभूतः पलायनदिशमलभ| मानो दिगम्बरः स्त्रीणां ब्रह्मव्रतधरणाय वस्त्रधारणमित्युक्तवान् , तच्च सर्वविस्तेरनुकूलमेवेत्यस्मदीयं वचः श्रुत्वा दिगम्बरेण किं कर्त्तव्यमित्युपदेशमाह
AARISHAILEBANAPRILAULIGIBHAISA
For Person and Private Use Only