________________
सप्तम्यगमने हेतुः
श्रीप्रवचनपरीक्षा २विश्रामे ॥८४॥
स्याच्छिन्नप्रवृत्तिहेतवस्तु गणधरादिसाधवः, तन्मातरः स्त्रिय एव भवन्ति, मातृणां च निजापत्येवकृत्रिमः स्नेहः स्यात् , तेन पित्राद्यपेक्षया मातरः स्वापत्यानि सातिस्नेहं परिपालयन्तीति जगतस्थितिः, अत एव श्रीऋषभजिने प्रबजिते पुत्रस्नेहे शोकाश्रुविमो|चनात् क्षामलोचना मरुदेवी प्रत्यहं भरतं प्रति-हे भरत ! मत्पुत्र ऋषभो निरशनो निर्वसनो निर्यानो वनवासी बने एकाक्येव परिभ्रमति, | त्वं तु राज्यसुखनिमग्नस्तद्वार्तामपि न करोपि,इत्याधुपालम्भपरायणा वर्षसहस्रं यावत् क्षणमात्रमपि स्वास्थ्यं न प्राप,न चैवं नाभिकुलकरोऽपि, आस्तां जन्ममाता, कुक्षिधरमात्रेणापि देवानन्दा ब्राह्मणी श्रीवीरवन्दनार्थमागता श्रीवीरं निरीक्ष्य निनिमेषतया पश्यन्ती रोम श्चिताऽतिस्नेहेन स्तन्यपयाश्रावणाकञ्चुकी संजज्ञे इति प्रवचने प्रतीतम् , एवं तीर्थकरमातृणां तज्जातीयानामन्यासामपि स्त्रीणां तीर्थकरे तीर्थकरापत्येषु साधुषु तीर्थकरभाषिते च श्रुतचारित्रादिधर्मे तीवो रागो युज्यते, एतच्च संप्रति प्रत्यक्षमपि लक्ष्यते, कासांचित् स्त्रीणां पुरुषापेक्षयाऽधिकतरस्यापि धर्मरागस्योपलभ्यमानत्वात् , प्रत्यक्षापलापस्य केनापि कर्तुमशक्यत्वात् , नचैवं संप्रत्युपलभ्यते परं पूर्व नासीदिति शङ्कनीयं, तीर्थकरवारकेऽपि तथैवोपलम्भात् , तथाहि-छामस्थ्ये भगवता श्रीवीरेण द्रव्यतः कुल्माषाः क्षेत्रतो देहल्या एकं पादमारत एक पादं च परतः कृत्वा कालतो भिक्षाचरेषु निवृत्तेषु भावतो राजसुता दासत्वमापन्ना मुण्डितशिरोजाऽष्ट| मोपवासिका सूर्यकोणस्थितान् कुल्माषान् रुदती दास्यति तदा मम पारणकमिति घोराभिग्रहे कृते चतुर्यु मासेतु गतेषु कौशाम्भ्यां | शतानीकराजस्य मृगावती नाम राज्ञी कदा भगवतः पारणकं भावीति भगवति तीव्ररागेण प्रत्यहं चिन्तापरा तथ्यवादिनं निमित्त पृष्टवती, न पुनः कोटिशः संख्येष्वपि श्रावकेषु विद्यमानेषु कोऽपि श्रावकः पृष्टवान् , तत्र कारणं किं रागोऽन्यद्वेति स्वयमेव विचारणीयं, तथा भिक्षामलात्वा चलमाने भगवति वीरे चन्दनवालवारुदत् , न चैवं कोऽपि श्रावकः श्रूयते, तथा मङ्खलिपुत्रमुक्ततेजो
||८४॥
Jan Education
For Personal and Private Use Only
www.neborg