SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे ॥ ८१ ॥ | आकृतिमननुहरन्, आकारानुकारं परित्यजन्, अपिर्गम्यः, तीर्थकृदनुकारमकुर्वन्नपीत्यर्थः, गुरुशिष्यसंबन्धे आज्ञाया एव प्राधान्याद्, अयं भावः यथा द्रव्यवैद्योपदेशेनैव प्रवर्त्तमानो रोगी नीरोगतां भजते तथा जिनाज्ञया प्रवर्त्तमानो हि तदनुकाररहितो | मोक्षमामति, अन्यथा विपरीतो- वैपरीत्यं कुर्वन्नाज्ञामतिक्रम्य नटवत्तदनुकारं कुर्वन्नपि अनन्तसंतापम् - अनन्तकालं यावत् क्लेशं नरकादौ लभते, यतः - "रणो आणाभंगे इक्कुचिअ होइ निग्गहो लोए । सवण्णु आणभंगे अनंतसो निग्गहं लहइ ॥ १ ॥” इति, अत एवास्तामन्यद्, जिनेन्द्राज्ञापराङ्मुखो जिनेन्द्रमेव महाविभूत्या पूजयन्नपि तिरस्करणीयः, यदुक्तम्- "आणाखंडणकारी जइवि तिकालं | महाविभूईए । पूएइ वीअरायं सर्व्वपि नित्यं तस्स || १ || "त्ति अत एव हे नग्नाट! तव च तीर्थकर शिष्यत्वात् तदाकारादिकं प्रमाणं तर्हि तदुपदेशोऽपि प्रमाणमास्तां, तथा किं नाग्यव्रतस्वीकारेणात्मानं विगोपयसि ?, नहि नाग्यादिवतरूपं कष्टमेवात्मनां कर्मक्षय| कारणं, किंतु जिनाशैव, यदुक्तं - "विशिष्टकष्टस्य कर्मक्षयं प्रत्यकारणत्वाजिनाज्ञाया एव कर्मक्षयं प्रति कारणत्वात्,” तस्माच्चतुर्द्दशोपकर|णविशिष्टं तीर्थदुपदिष्टमस्माकमप्यभीष्टं स्थविरकल्पिकमार्गमेव स्वीकुर्विति गाथार्थः ।। १७ ।। अथोपकरणाभावे दोषदिशं दर्शयन्नाह उवगरणाणमभावे न हुंति समिईड संजमो कत्तो ? । तयभावा उ नराणं तुम्भ मए नेव निवाणं || १८ || वस्त्रपात्राद्युपकरणाभावे समितयः - ईर्याभाषैपणादानपारिष्ठापनिकालक्षणाः पञ्च समितयो न भवन्ति, तदभावाच्च कुतः संयमः १, | संयमाभावाच्च तव मते नराणां पुरुषाणाम्, अपिर्गम्यः, स्त्रीणामिव पुरुषाणामपि निर्वाणं नैव संभवेदित्यक्षरार्थः, भावार्थस्तु संक्षेपेण | त्वेवं- वस्त्राभावेशीतातपचातवारिप्रभृत्युपद्रवे तथाविधधृतिसंहननादिवलरहितः साधुर्युतं२ गच्छन्नागच्छंश्च नर्यासमितः स्यात्, पात्राभावे च संसक्तसक्तदध्यादिकं गलनादिभयात् त्वरितं २ गृहणानो भुञ्जानोऽप्यनेषणासमितः स्यात्, भाजनाभावे च केवलभूमौ Jain Education International For Personal and Private Use Only आज्ञा खंडनफलं ॥ ८१ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy