________________
श्रीप्रववनपरीक्षा रविश्रामे ॥ ८० ॥
उपशमश्रेणिः ६ जिनकल्पः ७ परिहारविशुद्धिसूक्ष्मसंपरायथाख्यातलक्षणं संयमत्रिकंट केवली ९ मोक्षगमनलक्षणा सिद्धिश्व १०, सर्वेऽप्येते | पदार्थाः जम्बूस्वामिनि व्युच्छिन्नाः, जम्बूस्वामिनं यावत्प्रवृत्ताः, न तूत्तरत्रेति श्रीविशेषावश्यकभाष्यवृत्तौ ३६३ पत्रे । अथ कारणसद्भावे किमस्तीत्याह - 'अस्थि' ति चकारोऽध्याहार्यः अस्ति च स्थविराणां कल्पः स्थविरकल्पः कीदृशः १ - तीर्थप्रवृत्तिहेतुः सर्वेष्वपि | तीर्थेषु अच्छिन्नप्रवृत्तिहेतवः स्थविरकल्पिका एव साधवो भवन्ति, तेषामेव धर्मोपदेशप्रव्रज्यादानादावधिकारः, न पुनर्जिनकल्पिका अपि तेषां धर्मोपदेशदानादावनधिकारात्, स्थविरकल्पः पुनः कीदृशो भवति ? - उपकरणपरिकलितः, तत्रोपकरणानि रजोहरणं ? | मुखवस्त्रिकार कल्पत्रिकं५ चोलपट्टकः ६ साधारणपात्रं - मात्रापरपर्यायं ७ सप्त च पात्रसबन्धीनि 'पत्तं पत्ताबंधो' इत्यादिप्रागुक्तानि १४ | इति चतुर्द्दशोपकरणानि जघन्यपदेऽपि स्थविरकल्पे भवन्ति, तैः परिकलितः सहितः स्थविरकल्पो भवतीति जिनोपदेश इति गाथार्थः ||१५|| अथोपदेशकरणे दृष्टान्तमाह
विज्जुवएस रोगी कुणमाणो लहइ इच्छिअं लच्छि । जह तह तस्सवि चरिआपमुहं णो अणुहरंतोऽवि ॥ १६ ॥
यथा वैद्योपदेशं कुर्वाणो रोगी रोगाद्विमुक्तः इप्सितां - वाञ्छितां लक्ष्मीं लभते, न तथा तस्यापि वैद्यस्यापि चर्याप्रमुखमनु| हरन् - वैद्यानुकारं कुर्वन् रोगाद्विमुच्यते, प्रत्युत वैद्योपदेशमकुर्वन् वेषादिना तदनुकारं कुर्वन् भण्डिक इत्यभिधीयते, वैद्यो ऽप्ययमनुचित इतिकृत्वा परिहरतीति गाथार्थः ।। १६ ।। अथोपनयमाह -
एवं जिनिंदणं कुणमाणो लहइ निव्वुइद्वाणं । आगिइमणणुहरंतो विवरीएऽणतसंतावं ॥ १७॥ एवं प्रागुक्तदृष्टान्तेन द्रव्यवैद्येन भाववैद्यस्य जिनेन्द्रस्याज्ञामेव कुर्वाणो निर्वृतिस्थानं-मोक्षास्पदं लभते - प्राद्मोति, किं कुर्वन्? -
Jain Educationa International
For Personal and Private Use Only
जिनकल्पाधुच्छेदः
॥ ८० ॥
www.jainelibrary.org