SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे 1106 11 Jain Educationa अरिहंतस्सुवारी संजमजोएस नेव वत्थाई । इअरेसिं उवयारी तेणं णो सरिसा दुहं ॥ १० ॥ अर्हतः संयमयोगेषूपकारी वस्त्रपात्रादिर्न भवति, इतरेषां सुधर्मादिसाधूनां भवति, तेन तीर्थकृता सह साम्यं न साधोरितिगाथार्थः ||१०|| अथान् कीदृशः कीदृशाच साधव इत्याह तेणं अरिहा रहिओ सलिंग परलिंगsगारलिंगेहिं । तस्सऽणुरूवं रूवं धरिउं सम्मं न साहूणं ॥ ११ ॥ येन कारणेन तीर्थकृतां वस्त्राद्यनुपयोगः तेन कारणेनार्हन् स्वलिङ्गपरलिङ्गगृहस्थलिङ्गे रहितः स्यात्, तत्र स्वलिङ्गं रजोहरणादि परलिङ्गमन्य तीथिकलिङ्गं पिच्छिकादिकं गृहस्थलिङ्गं तु प्रतीतमेव, एमिर्विप्रमुक्तस्तीर्थकृद्भवति, यदागमः - "सवेऽवि एगदू| सेण निग्गया जिणवरा चउवीसं । न य नाम अण्णलिंगे णो गिहिलिंगे कुलिंगे वा ॥१॥ (आ० २२७ ) इति, तस्यार्हतोऽनुरूपं - सदृशं रूपं धर्तु न सम्यग् सत्यं युक्तमितिगाथार्थः || ११|| अथ तीर्थकरानुकरणे हितशिक्षामाह जई जिणवर अणुकरणे वीसासो हुज्ज ता इमं सवं । परिहर धम्मुवएस छउमत्थे सीसकरणाइ ||१२|| यदि तीर्थकरानुकरणे विश्वासस्तर्हि एतद् वक्ष्यमाणं सर्व परिहरेत्यन्वयः, एतत्किमित्याह - छानस्थ्ये- छद्मस्थावस्थायां धर्मोपदेशं शिष्यकरणादि च परिहर, यतः तीर्थकराः छद्मस्थावस्थायां न धर्मोपदेशं कस्यचित्प्रव्रज्यां च ददति, आदिशब्दादमु| कस्य वयं शिष्याः अस्माकं चायं गुरुरित्यादिव्यवहारोऽपि परिहर्त्तव्यः, तीर्थकृतां तथाव्यवहाराभावात्, तथा आचार्य पदग्रहणं सूत्राद्यध्ययनाध्यापनादि पुनः पुनर्लोचकरणं चेत्याद्यपि त्याज्यं, तेषां तदभावादितिगाथार्थः॥ १२ ॥ अथ प्रकारान्तरेणापि तीर्थकरानुकृतिं दूषयितुमाह For Personal and Private Use Only अनुकरणविचार: 1106 11 www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy