________________
श्रीप्रवचनपरीक्षा २विश्रामे ॥७६॥
SANE
जिताचेलपरिपहतादि
AIIMSIMPA
णात् तेषु मृाद्यभावाच्च मुनयोऽचेला व्यपदिश्यन्त इतीह तात्पर्य,न चान्यथा परिभोगेणाचेलकत्वव्यवहारोऽप्रतीतो भविष्यतीति शकनीयं, "जह जलमवगाहंतो बहुचेलोऽवि सिरवेढिअकडिल्लो । भण्णइ नरो अचेलो तह मुणओ संतचेलावि ॥१॥" (बि० २६००)त्ति विशेषावश्यकभाष्यवचनाल्लोकव्यवहारेऽपि प्रतीतत्वात् , तथा जीर्णादिभिरपि वस्त्रैरचेलत्वव्यवहारो यथा-"तह थोवजुण्णकुच्छिअचेलेहिवि भण्णई अचेलुत्ति । जह तूर सालिलहुं दिसु पोति नग्गिआ मो॥१॥त्ति"(वि.२६०१) विशेषावश्यकभाष्ये,अस्या अर्थः, पूर्वार्द्ध सुगम, 'जह तूरे त्यादि दृष्टान्तः यथा इह काऽपि योषित कटिवेष्टितजीर्णबहुच्छिद्रकशाटिका कश्चित्कोलिकं वदति-त्वरस्व | भोः शालिक:-शीघ्रो भूत्वा मदीयपोतीशाटिकां निर्माप्य 'ददस्त्र' समर्पय, नग्निका वर्तेऽहं, तदिह सवस्खायामपि योषिति नाग्न्य| वाचकशब्दप्रवृत्तेः, तस्मादुपचरितमेवाचेलक्यं संयमोपकारी, न पुनः सर्वथा वस्त्राभावः, तेनाचेलतापरीषहोऽपि तदेवेति बोध्यं ६। नापि प्रवचनगौरवार्थमित्यपि विकल्पः श्रेयान् , वस्त्राभावे प्रवचनखिसाया एवाध्यक्षसिद्धत्वाद्गौरवं तु दुरापास्तमिति ७। अथ | तीर्थकृदनभ्युपगन्तृत्वमिति विकल्पः सोऽप्यश्राव्यः, यतस्तीर्थकराः सर्वेऽपि निरुपमधृतिसंहननाः छमस्थावस्थायामपि ज्ञानचतुष्टयोपेताः अतिशयसत्वसंपन्नाः अच्छिद्रपाणयो जितसमस्तपरीषहा भवन्ति, तस्मात्तेषां वस्त्राद्यभावेऽपि संयमविराधनादयो दोषा न भवन्ति, अतस्तीर्थकृतां वस्त्रादिकं संयमोपकार्यपि न स्याद्, अकिञ्चित्करत्वात , यचैकं देवद्ध्यवस्त्रमादाय तीर्थकृतः प्रत्र| जन्ति तत् सवस्त्रो धर्मो मया प्रज्ञापनीय इति ज्ञापनार्थम् , एतेन तीर्थकृतां सर्वथा वस्त्राभाव एवेति दिगम्बराभिप्रायोऽपि तिरस्कृतः, यावत् तद्देवदृष्यवस्त्रसंधारणं तावत्कालं सचेला अपि भगवन्तो भवन्तीति,किंच-तीर्थकृदनुकृतौ छामस्थ्ये धर्मोपदेशशिष्यप्रव्राजनाङ्गा-IN द्यध्ययनादिकमपि व्युच्छिद्येत, तीर्थकृतां तदभावात् ८। अथ जिनकल्पिकानभ्युपगन्तृत्वमित्यपि न चारु, यतो जिनकल्पिका
॥७॥
JainEducational
For Personal and Private Use Only
www.jinyong