________________
श्रीप्रवचनपरीक्षा २विश्रामे
आचेलक्यव्यवस्था
अथोद्गमादिदोषविप्रमुक्त विशुद्धमेषणीयं भक्तपानादिकंरागादिदोषरहितः सन् सेवमानोऽपि जितपिपासादिपरीषहो मुनिर्भण्यते तर्हि 0 योऽयं विधिभक्तादिषु यतेः स विधिर्वस्त्रेऽपि भण्यमानः क्वापि नष्टो? येन तथाविधवस्त्रपरिभोगाज्जिताचेलपरीषहो मुनिन स्यात् , यत्तु साधूनामाचेलक्यमुक्तं तच्च वस्त्रे सत्यसति चागमे लोके च रूढं, तथाहि-इहालक्यं द्विधा-मुख्यमौपचारिकं च, तत्र मुख्य तीर्थकृतां कस्यचिञ्जिनकल्पिकस्य च, तत्र तीर्थकृतां प्रव्रज्याप्रतिपत्तिसमये वामस्कन्धस्योपरि देवेन्द्रोपनीतदेवघ्यवस्खापगमे सवथा वस्त्राभावात् मुख्यवृत्त्यैवाचेलकत्वं, जिनकल्पिकस्य तु कस्यचित्तथाविधलब्धिमतो जिनकल्पप्रतिपत्तेः रजोहरणमुखवस्त्रिकातिरिक्तोपकरणाभावात् सर्वथा वस्त्राभावादेवाचेलकत्वं मुख्यमेव, उक्तशेषसाधूनां तूपचरितं, यतस्ते परिशुद्धजीर्णादिवत्रं मृ दिराहित्येन परिभुञ्जानाः सत्यपि वस्त्रेऽचेला एव भण्यन्ते, यदागमः-"परिसुद्धजुण्णकुच्छिअथोवानिअयण्णभोगभोगेहिं । मुणिणो मुच्छारहिआ संतेहिं अचेलया हुंति ॥९।। (वि० २५९९) अस्या व्याख्या-मुनयः साधवो मृजरहिताः सद्भिरपि चेलैरुपचारतोऽचेलका भवन्ति, कथंभूतैश्चेलैरित्याह-'परिसुद्ध'त्ति लुप्तविभक्तिदर्शनात् परिशुद्धः-एषणीयैः तथा जीर्णैः-बहुदिवसैः कुत्सितैः-असारैः स्तोकैः-गणनाप्रमाणतो हीनैस्तुच्छैर्वा अनियतैः-कादाचित्कासेवनैः अन्यभोगभोगैः-लोकरूढप्रकारादन्यप्रकारेण भोगः-आसेवनं, प्रकारलक्षणस्य मध्यपदस्य लोपाद् अन्यभोगस्तेनान्यभोगेन भोगः-परिभोगो येषां तानि तथा, तैरित्येवंभूतैश्चेलैः सद्भिरप्युपचारतोऽचेलका मुनयो भण्यन्ते,एवंभूतं चालकत्वं लोकेऽपि प्रसिद्धमेव,यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्याचेलकत्वव्यपदेशः एवं साधोरपि कच्छाबन्धाभावात् कूपराभ्यामग्रभाव एव चोलपट्टकस्य धारणात् मस्तकस्योपरि प्रावरणाद्यभावाच लोकरूढ(प्रकारादन्य)प्रकारेण चेलभोगो द्रष्टव्यः,तदेवं 'परिसुद्धजुण्णकुच्छि' इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकर
|
|७५॥
For Person
Piese Only
ranelibrary.org.