________________
HTA
श्रीप्रवचनपरीक्षा २विश्रामे ॥७४॥
रौद्रादिहेतुतानिरास:
णुबंधी३ सारक्खणाणुबंधी४" ति० श्रीस्थानाङ्गे (८०४ सू०) तत्र संरक्षणं-सर्वैरिणायुपायैस्तस्करादिभ्यो निजवित्तस्य संगोपन तस्यानुवन्धः-सातत्येन चिन्तनं यत्र रौद्रध्याने तत्तथा, एवं संरक्षणानुबन्धो रौद्रध्यानस्य चतुर्थों भेदः, स च वस्त्रवतामवश्यंभावाद् दुर्गतिहेतुः, अतः शस्त्रादिवद्वस्त्राद्यपि साधुना न ग्राह्यमिति दिगम्बराभिप्रायः, सोऽप्ययुक्तः, देहादिष्वपि जलज्वलज्जलनमलिम्लुचश्वापदाहिकण्टकविषादिभ्यः संरक्षणानुबन्धस्य तुल्यत्वाद् , अतो देहादयोऽपि त्याज्या भवेयुः, अथेह देहादेर्मोक्षसाधनाङ्ग| त्वाद् यतनया तत्संरक्षणानुबन्धविधानं प्रशस्तं न दोषायेति चेत् तर्हि प्रवचनप्रसिद्धेन यतनाप्रकारेणेहापि वस्त्रादौ संरक्षणानुबन्धविधानं कथं न प्रशस्तम् ?, अथ वस्त्रादिमूर्छावतो लोकस्य भवभ्रमणकारणं वस्त्रादि प्रतीतं, तच्च साधूनां नोचितमिति चेत् मैवं, यतो लोके शयनासनपानभोजनगमनावस्थानमनोवाकायचेष्टादयोऽप्यसंयतानामप्रशस्ताध्यवसायहेतुत्वेन संसारहेतवः, त एव संयतानां प्रशस्ताध्यवसायहेतुत्वेन मोक्षायैव संपद्यन्ते,तस्माद्वस्त्रादिस्वीकारेऽपि नेतरजनवत्साधूनां त्वदुद्भावितदोषलेशोऽप्यनुयुज्यते ५॥ अथ परीपहसहनार्थ वस्त्राभावोऽसाकमिति षष्ठो विकल्पः सोऽप्यतितुच्छः,तथाहि-'जिताचेलपरीसहो मुणित्तिवचनाद्वस्त्राभावे सत्येवाचेलपरीषहो जितो भवतीति दिगम्बराशयः, तत्र दिगम्बरस्तावदित्थं प्रष्टव्यः-भो नग्नाट! किं चेलभोगमात्रेणाप्यजिताचेलपरीषहो मुनिर्भवति? येन भवता सर्वथा वस्त्रपरित्यागः क्रियते,आहोश्चिदनेषणीयदोषदुष्टवस्त्रपरिभोगेण?,आद्यपक्षे यदि चेलपरिभोगमात्रेणापि साधुना आचेलक्यपरिषहो जितो न स्यात् तर्हि भक्तादिपरिभोगमात्रादपि जितक्षुत्पिपासादिपरिषहो मुनिन स्यात् ,ततश्च यदि एषणीयादिगुणसंपन्नान्नादिकं भुञ्जानोऽपि क्षुत्पिपासादिपरीपहजेता जगति न कश्चिदपि सिध्येत् , आसतामन्ये, निरुपमधृतिसंहननाःसत्त्वैकनिधयो जिनेन्द्रा अपि भगवन्तः सम्यगेषणादिगुणसंपन्नानादिकं भुञ्जानास्त्वदभिप्रायेण नक्षुत्पिपासादिपरीषहजेतारः संभवन्ति,
PRIMARILADIMANI HINDIMIMIRPOnlineK
।।७४॥
Jan Education
inte
For Personal and Private Use Only
www.jainelibrary.org