________________
श्रीप्रवचनपरीक्षा
शविश्रामे
॥७३॥
त्यागापत्तेः, तथा निद्रादिप्रमादवशेन विस्मरणादिभयहेतुर्ज्ञानं, शङ्कादिना विनाशभयहेतुर्दर्शनं,प्रमादाचरणादिना मालिन्यभयहे- क्रोधादितुश्चारित्रमिति ज्ञानाद्यपि परिहरणीयं स्यात् , आस्तामन्यद्-भोजनेऽप्यजीर्णादिभयं भवत्येवेति भोजनमपि परिहरणीय संपद्येत३, ID हेतुत्वादि| अथ वस्त्रं क्रोधादिहेतुरिति चतुर्थो विकल्पः सोऽप्यकिश्चित्कर एव, शरीरादेरपि क्रोधादिहेतुत्वेन त्यागापत्तेः, तत्कथमिति चेत् ।
निरास: शृणु, आस्तामन्यत् परमहो अयं पापात्मा कुलवधूनामप्यवाच्यं दर्शयन् न लज्जत इत्यादितथाविधाऽऽर्यजनोक्तिस्तव कर्णपथमवती तवैव क्रोधोत्पत्तिहेतुर्जायते, तन्निदानं च नग्नरूपतया वीभत्सं त्वदीयं शरीरमेव, तदभावे च तथाविधोक्तेरेवासंभवात् कुतः क्रोधा-| देरुत्पत्तिः, एवमाहारविधावपि वाच्यं, तत्राप्यमनोज्ञाहारावाप्तौ त्वद्विकल्पितान्तरायपाते चानुपयोगिपुरुषविषयकः क्रोध उत्पद्यत एव, न चैतदसंभवीति वाच्यं, दशमगुणस्थानकं यावत्साधोरपि संज्वलनक्रोधादेरुदयात् , तन्निमित्तं चोक्तं कारणजातमेव, नान्यद्, एवं ज्ञानादावपि भाव्यं, ननु ज्ञानात् क्रोधोत्पत्तिः कथमितिचेत्तर्हि वस्त्रात् क्रोधोत्पत्तिः कथमिति वयं पृच्छामः ?, तत्र वस्त्रापगमे चौरादिविषयकः क्रोधो वस्त्रनिमित्तक एवेति ममाशय इति चेत् तर्हि कश्चित्पाण्डित्यादिगुणैर्विख्यातः क्वचिद्राजसभादावपरपण्डितेन पराभूतोऽपभ्राजनां प्राप्तः खजेतरि पण्डिते क्रोधभाक् स्यात् , तत्र क्रोधनिदानं श्रुतज्ञानमेव, अनधीतस्य तथापराभृतेरेवासंभवात् कुतः क्रोधादिः, एवं परवादिजये मानहेतुरपि ज्ञानमेव, ततः श्रुतमपि नाध्ययनीयं स्यात् , बाहुबल्यादिदृष्टान्तेन चारित्रमपि मानहेतुः, कथमन्यथा भ्रातृवन्दनभीत्या वर्ष यावत्कायोत्सर्गे तस्थौ, तन्मानकारणं च चारित्रमेव तदप्यनुपादेयं स्यात् , तथा सूरिपदादिकमपि कस्यचिन्मानहेतुत्वेन वस्त्रादिवनोपादेयं संपद्येत दिगम्बरमते इत्यलं प्रपश्चनेति४ । अथ दुर्व्यानहेतुत्वं |चेतिविकल्पः सोऽप्यनुचित एव, तथाहि-"से किं तं रोदज्झाणे ?, रोद्दज्झाणे चउबिहे पं०, तं०-हिंसाणुबंधी? मोसाणुबंधीर तेआ-||॥७३॥
SHARUPANISHINI
For Personal and Private