________________
श्रीप्रवबनपरीक्षा २विश्रामे ॥७१॥
जिनानुपदिष्टत्वादि
'वेअण' गाहा,वेदना च-क्षुद्वेदना१ वैयावृत्यम्-आचार्यादिकृत्यकरणं२ वेदनावैयावृत्त्ये, भुञ्जीत वेदनोपशमनार्थ वैयावृत्यकरणार्थ चेति भावः,ईर्या-गमनं तस्या विशुद्धिः-युगमात्रनिहितदृष्टित्वमीर्याविशुद्धिस्तस्यै च विशुद्ध्यर्थमिम् , इह च विशुद्धिशब्दलोपादीर्यापथमित्युक्तं, बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, चः समुच्चये, संयमः-प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थ, तथेति कारणान्तरसमुच्चये, प्राणाः-उच्छासादयो बलं वा तेषां तस्य वा वृत्तिः-पालनं तदर्थ, प्राणसंधारणार्थमित्यर्थः, षष्ठं पुनः कारणं | |धर्मचिन्तायै, गुणनानुप्रेक्षार्थमित्यर्थः, इत्येतानि षट् कारणानीति । किंच-आहारकारणापेक्षया वस्त्रकारणं बलवत्तरमेव, यतो वस्त्रपरित्यागे लज्जादिमनुष्यधर्मरहितो लोके देवत्तायत्तोऽयमनालाप्यो द्रष्टुमप्यकल्प्य इत्याद्युपेक्ष्यैव परिहियते, आहारपरित्यागे चाहो महानुभावोऽयं तपस्वी यावत्पर्युपासनाह इत्यादिख्यातिमान् प्रवचनगौरवहेतुर्भवेत् , तस्माद्गुह्यावयवाद्याच्छादनेन मनुष्य| धर्मसत्यापनहेतुं वस्त्रमुपादाय परिहर परिणामानुचितमाहारविधिमिति सुहृद्वचः सत्यमेवेति बोध्यम्१॥ अथ मृ.निमित्तं हि | वस्त्रमितिकृत्वा वस्त्रोपादानं नाभिमतमिति द्वितीयविकल्पश्चेत् तर्हि वयं पृच्छामः-भो नग्नाट ! निजशरीरे तव मूर्छाऽस्ति नवा ?, | अस्ति चेत्तर्हि शरीरवद्वस्त्रमपि तवास्तां, न्यायस्य समानत्वात् , नास्ति चेत्सुतरां वस्त्रे मूर्छा न स्यात् , न ह्यवाप्ते कल्पतरावमूञ्छितः कल्पतरूपकारिण्यां तृणादिवृत्तौ मूर्छितः कोऽपि संभवेद् ,अयं भावः-प्रायोऽनन्तकालेनापि दुर्लभं रत्नकोटिशतैरपि क्रयेणालभ्यमनेककोटिद्रव्यव्ययेनापि परिपालनाहं तत्परिपालननिमित्तं बहुमूल्यबहुवस्तुविनाशेऽपि प्रमोदास्पदं वस्त्राद्यनेकबाह्यवस्त्वपेक्षयातरङ्गं चिरकालस्थायि च अहिकण्टककर्करगर्ताग्निवातातपशीताद्युपद्रवेभ्यः परित्रायमाणं लक्षपाकादितैलोद्वर्त्तनजलधावनादिना |परिशील्यमानं शर्करापानपुरस्सरमिष्टान्नपानादिभव्यभोजनविधिना परिपाल्यमानं, किंबहुना ?, स्वर्गापवर्गाधनेकाभीष्टार्थसाधक
spititisatillathi EdititilimmatlunMARITRIANISMEN
|| ७१॥
h
ISANI
Jan Education Internation
For Personal and Private Use Only
www.jainelibrary.org