SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवबनपरीक्षा २विश्रामे ॥७१॥ जिनानुपदिष्टत्वादि 'वेअण' गाहा,वेदना च-क्षुद्वेदना१ वैयावृत्यम्-आचार्यादिकृत्यकरणं२ वेदनावैयावृत्त्ये, भुञ्जीत वेदनोपशमनार्थ वैयावृत्यकरणार्थ चेति भावः,ईर्या-गमनं तस्या विशुद्धिः-युगमात्रनिहितदृष्टित्वमीर्याविशुद्धिस्तस्यै च विशुद्ध्यर्थमिम् , इह च विशुद्धिशब्दलोपादीर्यापथमित्युक्तं, बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, चः समुच्चये, संयमः-प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थ, तथेति कारणान्तरसमुच्चये, प्राणाः-उच्छासादयो बलं वा तेषां तस्य वा वृत्तिः-पालनं तदर्थ, प्राणसंधारणार्थमित्यर्थः, षष्ठं पुनः कारणं | |धर्मचिन्तायै, गुणनानुप्रेक्षार्थमित्यर्थः, इत्येतानि षट् कारणानीति । किंच-आहारकारणापेक्षया वस्त्रकारणं बलवत्तरमेव, यतो वस्त्रपरित्यागे लज्जादिमनुष्यधर्मरहितो लोके देवत्तायत्तोऽयमनालाप्यो द्रष्टुमप्यकल्प्य इत्याद्युपेक्ष्यैव परिहियते, आहारपरित्यागे चाहो महानुभावोऽयं तपस्वी यावत्पर्युपासनाह इत्यादिख्यातिमान् प्रवचनगौरवहेतुर्भवेत् , तस्माद्गुह्यावयवाद्याच्छादनेन मनुष्य| धर्मसत्यापनहेतुं वस्त्रमुपादाय परिहर परिणामानुचितमाहारविधिमिति सुहृद्वचः सत्यमेवेति बोध्यम्१॥ अथ मृ.निमित्तं हि | वस्त्रमितिकृत्वा वस्त्रोपादानं नाभिमतमिति द्वितीयविकल्पश्चेत् तर्हि वयं पृच्छामः-भो नग्नाट ! निजशरीरे तव मूर्छाऽस्ति नवा ?, | अस्ति चेत्तर्हि शरीरवद्वस्त्रमपि तवास्तां, न्यायस्य समानत्वात् , नास्ति चेत्सुतरां वस्त्रे मूर्छा न स्यात् , न ह्यवाप्ते कल्पतरावमूञ्छितः कल्पतरूपकारिण्यां तृणादिवृत्तौ मूर्छितः कोऽपि संभवेद् ,अयं भावः-प्रायोऽनन्तकालेनापि दुर्लभं रत्नकोटिशतैरपि क्रयेणालभ्यमनेककोटिद्रव्यव्ययेनापि परिपालनाहं तत्परिपालननिमित्तं बहुमूल्यबहुवस्तुविनाशेऽपि प्रमोदास्पदं वस्त्राद्यनेकबाह्यवस्त्वपेक्षयातरङ्गं चिरकालस्थायि च अहिकण्टककर्करगर्ताग्निवातातपशीताद्युपद्रवेभ्यः परित्रायमाणं लक्षपाकादितैलोद्वर्त्तनजलधावनादिना |परिशील्यमानं शर्करापानपुरस्सरमिष्टान्नपानादिभव्यभोजनविधिना परिपाल्यमानं, किंबहुना ?, स्वर्गापवर्गाधनेकाभीष्टार्थसाधक spititisatillathi EdititilimmatlunMARITRIANISMEN || ७१॥ h ISANI Jan Education Internation For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy