________________
श्रीप्रवचनपरीक्षा २विश्रामे
॥ ७० ॥
परिहरणीयं स्यात्, तत्राप्युक्तदोषाणां सुतरां संभवाद्, आस्तामन्यद्, अथवा ज्ञानदर्शनचारित्राण्यपि त्याज्यानि भवेयुः, यतः पुरुषविशेषे ज्ञानाद्यपि सदोषं त्वद्विकल्पितदोषभागू, तत्कथमितिचेच्छृणु भो नम्राट ! त्वया वस्त्रं नाभ्युपगम्यते तत्र कारणं किं १, जिनानु| पदिष्टत्वं वा १ उत मूर्च्छाहेतुत्वं वार भयहेतुत्वं वा क्रोधादिहेतुत्वं वा४ दुर्ध्यानहेतुत्वं वा५ परीषहसहनार्थं वा६ प्रवचनगौरवं | चा७ अर्हदनभ्युपगतत्वं वा८ जिनकल्पिकानभ्युपगतत्वं वा इति नव विकल्पाः, आद्यो विकल्पो नाल्पदोषावहः, लजादिरक्षानिमित्तं वस्त्रधारणस्य जिनैरनुज्ञातत्वाद्, यदागमः - " तिहिं ठाणेहिं वत्थं धारेजा, तं० - हिरिवत्तिअं१ दुर्गुछावत्तिअं२ परीसहवत्तिअं३'ति श्रीस्थानांगे (सू. १९७१) एतद्वृत्तिर्यथा - हूी :- लज्जा संयमो वा प्रत्ययो - निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा-लोकविहिता निन्दा सा प्रयोजनं यस्य तत्तथा, एवं परीषहाः - शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथे "ति, एतच्च त्वयाऽपि प्रागभ्युपगतं, परं | कारणिकमित्यादि यदुद्भावितं तत् शून्यहृदयत्वात्सम्यक् नोपलक्षितं, तथाहि - वयमपीत्थमेव ब्रूमः - त्रिभिरेव कारणैः साधुर्वखं धरेत् परं यानि कारणान्युक्तानि तानि कारणानि जिनकल्पाद्ययोग्यानां निरतिशयिनां च साधूनां सततं संभवत्येव, ततो धारणीयमेव वस्त्रं, यदिवा कुत्सापरीषहार्थं न तत् धियते तथापि संयमनिमित्तमवश्यं धरणीयमेव, अन्यथा शीतकालेऽग्निज्वालनादिना महाऽसंयमापत्तेः, यच्चोक्तम् -'अस मसाहसवतामस्माकं कारणमसंभवी'ति तर्हि भवादृशामाहारग्रहणमपि न युक्तं, तस्यापि कारणिकत्वाद्, यदागमः - "छहिं ठाणेहिं समणे निग्गंथे आहारमाहारेमाणे नाइकमइ, तं० - वेअण १ वेयावच्चे२ इरिअट्ठाए अरे संजमट्ठाए ४ । तह पाणवत्ति आए५ छटुं पुण धम्मचिंताए६ ॥ ४१* || ति (सू०५००) श्रीस्थानाङ्गे, अस्य व्याख्या- 'छहि' न्ति कण्ठ्यं, नवरमाहारम् - अशनादिकमाहारयन्- अभ्यवहरन् नातिक्रामत्याज्ञां पुष्टालम्बनत्वाद्, अन्यथा त्वतिक्रामत्येव, रागादिभावात्, तद्यथा
Jain Educationa International
For Personal and Private Use Only
जिनानुपदिष्टत्वादि
1190 11
www.jninelibrary.org