________________
श्रीप्रवचनपरीक्षा रविश्रामे
देहाहारज्ञानादौ प्रतिबन्दी
| गणिकया दृष्टा, तत इत्थं विवस्त्रां बीभत्सामिमां दृष्ट्वा मा लोकोऽस्मासु विराङ्कीदित्यनिच्छन्त्यपि तया परिधापिताऽसौ, स एव व्यतिकरोऽनया शिवभूतये निवेदितः, ततोऽनेन विवस्त्रा योषिनितरां वीभत्साऽतिलज्जनीया च भवतीति विचिन्त्य प्रोक्ताऽसौ- तिष्ठ त्वमित्थमपि, न त्यक्तव्यं त्वयैतद्वलं,देवतया हि तवेदं प्रदत्तमिति,ततः शिवभूतिना कौण्डिन्यकोट्टवीरौ शिष्यौ दीक्षितौ,ताभ्यामाचार्यशिष्यलक्षणा परम्परा प्रवृत्तेति बोटिकदृष्टेरुत्पत्तिरिति गाथार्थः ॥४॥अथ दिगम्बरमतप्ररूपणामधिकृत्य मूलप्ररूपणामाह
सम्मयमूलपरूवणमुवगरणं धम्मसाहणं जं च। तंपिअ परिग्गहो खलु मुच्छाभयदोसहेउत्ति ॥५॥
तस्य-दिगम्बरस्य मते मूलप्ररूपणं-प्रथम एव भाषणं 'जंच'त्ति चोऽप्यर्थे व्यवहितः संबध्यते, यद्धर्मसाधनमप्युपकरणं-रजोहरणादिचतुर्दशोपकरणलक्षणं तदपि परिग्रहः,खलुरवधारणे,परिग्रह एव, तत्र विशेषणद्वारा हेतुमाह-'मुच्छत्ति, तत्परिग्रहः कुतो?, यतस्तदुपकरणं मूर्छाभयद्वेषहेतुरिति, ममेदमित्येवंरूपेण रागानुषङ्गो मूर्छा,चौरादेरुपहरणसमुत्थं भयं,तदनुपकारिणि च द्वेषः,तेषां हेतुरुपकरणमित्यर्थः, यस्मादेवं तसादुत्सर्गतो वस्त्रधारणं साधूनां न युक्तं, 'जिताचेलपरिसहो मुणि'त्ति वचनाद् वस्त्राभावे सत्येवाचेलतापरीषहो जितो भवेत् , यच्चागमे-"तिहिं ठाणेहिं वत्थं धरेजा,तं०-हिरिपतिअं१ दुगुंछावत्तिअं२ परीसहवत्तिअं३" (स्था० | १७१ सू०) इति वस्त्रधारणमुक्तं,तच्च लजादिरक्षार्थ कारणिकमेव, कारणं चासदृशसाहसवतामसादृशामसंभवीति दिगम्बराभिप्रायमारूढः पूर्वपक्ष इति गाथार्थः ॥५॥ अथ दिगम्बरविकल्पितं पूर्वपक्षं प्रतिबन्द्यैव षयितुमाह
देहाहारप्पमुहं परिहरणिज्जं हविज तस्समए। अहवाणाणाइ जओ पुरिसविसेसे सदोसंति ॥६॥ देहः-शरीरमाहारः-अशनादिलक्षणश्चतुर्विधस्तत्प्रमुखं-तदादि,आदिशब्दात शय्याऽऽसनवसत्यादिपरिग्रहः,तदपि तन्मते-दिगम्बरमते
Ims anand mms HamaAHINA RADIATIHARI
elyHus, woman
Jan Education Interno
For Personal and Private Use Only
"www.jainelibrary.org