________________
MININ-RIGIPm
दिगंबरोत्पत्तिकालादि
श्रीप्रवचनपरीक्षा रविश्रामे | ॥६॥
(आव० वृत्तौ प्रव० ४९३-४९४ पंचकल्पे) अनयोरर्थस्त्वेवम्-इह केषाश्चिजिनकल्पिकानां रजोहरणं मुखवत्रिका चेति द्विविध उपधिः१ अन्येषां तु कल्पेन सह त्रिविधः२ कल्पद्वयेन सह चतुर्विधा३ कल्पत्रयेण सह पञ्चविधः४ केषांचित्तु रजोहरणं मुखवत्रिका चेति द्वयं “पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिआ। पडलाइं रयत्ताणं गोच्छगो पायनिजोगु ॥१॥"त्ति (ओपनि०६६९) | सप्तविधः पात्रनियोग इत्येवं नवविधः५ कल्पेन तु सह दशविधः६ कल्पद्वयेन सहकादशविधः७ कल्पत्रयेण सह केपाश्चित् द्वादशविध उपधिर्जिनकल्पिकानामिति, तदेतच्छ्रुत्वा शिवभूतिना प्रोक्तं-यद्येवं तर्हि किमिदानीमौधिक ओपग्रहिकश्चैतावानुपधिः परिगृह्यते ?, स एव जिनकल्पः किं न क्रियते ?, ततो गुरुमिरुक्तं-जम्बूस्वामिनि व्यवच्छिन्नोऽसौ, संहननाद्यभावात् साम्प्रतं न शक्यो कर्तु, ततः शिवभूतिना प्रोक्तं-मयि जीवति स किं व्यवच्छिद्यते?, नन्वहमेव तं करोमि, परलोकार्थिना हि स एव निप्परिग्रहो जिनकल्पः | कर्तव्यः, किं पुनरनेन कषायमूर्छादिदोषनिधिना परिग्रहानर्थेन ?,अत एव श्रुते निष्परिग्रहत्वमुक्तम् , अचेलकाश्च जिनेन्द्राः,अतोऽचेलतैव सुन्दरेति, ततो गुरुणा प्रोक्तं हन्त यद्येवं तर्हि देहेऽपि कषायभयमूर्छादयोः दोषाः कस्यापि संभवन्तीति सोऽपि व्रतग्रहणानन्तरमेव त्यक्तव्यः प्रामोति,यच्च श्रुते निष्परिग्रहत्वमुक्तं तदपि धर्मोपकरणेष्वपि मूर्छा न कर्त्तव्येति मूीया अभाव एव निष्परिग्रहत्वमवसेयं, न पुनः सर्वथा धर्मोपकरणस्यापि त्यागः, जिनेन्द्रा अपि न सर्वथैवाचेलकाः, 'सत्वेऽवि एगदसेण निग्गया जिणवरा चउबीस'मित्यागमवचनात् (आव० २२७) तदेवं गुरुणा स्थविरैश्च यथोक्ताभिर्वक्ष्यमाणाभिश्च युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषायमोहादिकर्मोदयात् न खाग्रहान्निवृत्तोऽसौ, किंतु चीवराणि परित्यज्य निर्गतः, ततश्च बहिरुद्याने स्थितस्योत्तरानाम भगिनी वन्दनार्थं गता, सा च त्यक्तचीवरं तं भ्रातरमालोक्य वयमपि चीवराणि त्यक्तवती, ततो भिक्षार्थ नगरमध्ये प्रविष्टा
E
मणाभिश्च युक्ति
तस्योत्तरानाम
॥॥
Jan Education intento
For Personal and Private Use Only
www.
byorg