________________
श्रीप्रवचनपरीक्षा २विश्रामे ॥६७॥
दिगंबरोत्पत्तिकालादि
दीपकाभिधानमुद्यानं, तत्रार्यकृष्णनामानः सूरयः समागताः, तसिंश्च नगरे सहस्रमल्लो राजसेवकः, स च राजप्रसादाद्विलासान् कुर्वन्नगरमध्ये पर्यटति, रात्रेश्च प्रहरद्वयेऽतिक्रान्ते गृहमागच्छति, तदैतदीयभार्या तन्मातरं भणति-निर्वेदिताऽहं त्वत्पुत्रेण, न |
खल्वेष रात्रौ वेलायां कदाचिदप्यागच्छति, तत उजागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि, ततस्तया प्रोक्तं-वत्से ! | यद्येवं तर्हि त्वमद्य स्वपिहि, स्वयमेवाहं जागरिष्यामि, ततो वध्वा तथैव कृतम् , इतरस्यास्तु जाग्रत्या रात्रिप्रहरद्वयेऽतिक्रान्ते शिवभूतिना समागत्य प्रोक्तं-द्वारमुद्घाटयत, ततः प्रकुपितया मात्रा प्रोक्तं-दुर्णयनिधे ! यत्रैतस्यां वेलायां द्वाराण्युद्घाटितानि | भवन्ति तत्र गच्छ,न पुनरेवं त्वत्पृष्ठलग्नः कोऽप्यत्र मरिष्यति,ततः कोपाहङ्काराभ्यां प्रेर्यमाणोऽसौ निर्गतः, पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः, तत्र साधवः कालग्रहणं कुर्वन्ति, तेषां च पार्श्व तेन वंदित्वा व्रतं याचितं, तैश्च राजवल्लभो मात्रादिभिरमुत्कलितश्चेति व्रतं न दत्तं, ततः खेलमल्लकाद्रक्षां गृहीत्वा स्वयमेव लोचः कृतः, साधुभिर्लिङ्गं समर्पित, विहृताश्च सर्वेऽप्यन्यत्र, कालान्तरेण पुनरपि तत्रागताः, ततो राज्ञा शिवभूतये बहुमूल्यं कम्बलरत्नं दत्तं, तत आचार्यैः शिवभूतिरुक्तः-किं तवानेन साधूनां मार्गादिष्वनेकानर्थहेतुना गृहीतेन ?, ततस्तेन गुर्वप्रतिभासेनापि संगोप्य मूर्छया तद्विधृतं, गोचरचर्यादिभ्यश्चागतः प्रत्यहं तदसौ संभालयति, नतु किंचिदपि व्यापारति, ततो गुरुभिर्मच्छितोऽयमति ज्ञात्वा अन्यत्र दिने तमनापृच्छथैव बहिर्गतस्य परोक्षे | कम्बलरत्नं पाटयित्वा साधूनां पादप्रोञ्छनकानि कृतानि, ततो ज्ञातव्यतिकरः कपायितोऽसौ तिष्ठति, अन्यदा च सूरयो जिनक-| ल्पिकान् वर्णयन्ति, तद्यथा-"जिणकप्पिआ य दुविहा पाणीपाया पडिग्गहधरा या पाउरणमपावरणा इक्किका ते भवे दुविहा ॥१॥ दुग १ तिग२ चउक्क ३ पणगं४ नव ५ दस ६ इकारसेव ७ बारसगं८। एए अट्ठविगप्पा जिणकप्पे हुँति उवहिस्स ॥२॥त्ति"
॥६७॥
in Education tembon
For Personal and Private Use Only
Hiwww.jainelibrary.org