SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा प्रसाद्यते हर्षात् समये मय्यनुग्रह' इति,तच्च क्षिप्रं करोति, थामवान् नामानलसः, थामो नाम बलं, किमभिप्रेते सति बलं करोति, विनयफलं चूौँ अन्यथा करोति,सदा सर्वकालं । 'णच्चा णमिति मेहावी' सिलोगो (४५सू०६५ ) झात्वा वैनयिकानि यो वा यस्य विनयो र १ विनया यथा कार्यः तं ज्ञात्वा नमति, नमनेन च तस्योत्पद्यते पूजा, तत्करोति यः तस्य हि लोके कीर्तिर्भवति, स्वपक्षे परपक्षे वा ध्ययने कीर्त्यते विनयवानेषः गुराधनपरः, स चैवं विनयवान् सरणं भवति किच्चाणं, शिराचितमिति सरणा, सेवंत इत्यर्थः, स हि ॥४४॥ कृत्या नाम कृत्यासविभिः प्रणुद्यमानानां शरणं भवति, तत्र हि तानि निरुपद्रवानि तिष्ठति, अथवा शरणं घरं, गृहबदसौ तेषां कृत्यानां शरणं, ततो भवति दिढतो-भूताणं जगती जहा, भृवानामिति जीवानां, जायन्ते तस्यामिति जगती, पृथिवीत्यर्थः, एवं तस्स गुरुं पणिवयमाणस्स कृत्यानां शरणभृतस्य पूजनीयाः अल्पेनैव कालेन तुष्यन्ति ॥ तदेवं पूज्यैः तुष्टैः किं भवति !, उच्यते, 'पुज्जा जस्स पसीयंती' सिलोगो (४६ सू०६५) पूजनीयाः पूजा इत्यर्थः, यस्येति यस्य साधोः, बुद्धाप्याचार्या | एव, ते पूर्व पूज्यते पश्चात्प्रसीदंति, स्यादेतत्-प्रसाद सति यथा हरिहरहिरण्यगर्भादयः साक्षात्स्वर्ग किल नयंति किमेवं तेऽपि स्वर्ग मोक्षं वा नयंति? इच्छितं वावरं देंति ?, न, किमुच्यते ?, तेऽवि सम्यगाराधनाविशेषैः प्रसन्नाः प्रसादे सति लाभयिष्यति 'विपुलं ल अहितं सुतं' अर्थेन युक्तमार्थिक सुतं-श्रुतं ज्ञानं उक्तं नम (विन ) यश्रुतं ॥ तदादेशकारिफलं तु 'सपुज्जसत्थे' वृत्तं (४७ सू.६६ ) स इति शिष्यः,पूजनीयाः पूज्याः आचार्या इत्यर्थः,पूज्यैः शासितः सपूज्यैर्वा शासितः सपुज्जसत्थे, सुष्टु विनीतः संशयो यस्य भवति स सुष्टु मिनीतसंशयः, आचार्यस्य मनसो रुचितं चिति कम्मसंपदं,अनुभवमान इति वाक्यशेषः, विनीयकरणं तु मनोहै रुचिं चिट्ठदि कम्मद, मनोरुचितं याति मृत्वा सौधर्मसंपदं, कर्मविभूत्या इत्यर्थः, अक्खीणमहाणसीयादिलद्धिजुत्तो, अहवा -CONSCRECROCESCORROCESS
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy