________________
श्रीउत्तरा० चूर्णौ
१ विनया
ध्ययने
॥ २९ ॥
क्षुणतीति क्षुद्रः क्रूरकर्म्मा इत्यर्थः, क्षुद्रकर्मणो वा, संसर्जनं संसर्गः, हास्यं च क्रीडा च हास्यक्रीडे, तत्र हास्यं भासित्ता पासिता सुणेत्ता संभरेता य भवति, हसतो मोहणिज्जं बंधति, लोगपरिवायो सज्झायोवरोहे सूलादि वा होज्जा अतिहासात् उक्तं च" जीवेणं भंते ! हसमाणेण वा उस्सुयमाणेण वा कति कम्मपगडीओ बंधति ?, गोयमा ! सत्तविहबंधए वा अडविहबंधए वा " क्रीडतोऽप्येवमेव, कीडा गाहा वक्कवाल (वण्णलो ) वादीहिं, अहवा जे कीडपुव्वगं हास्यं तद्विवर्जयेत् ।। अयमन्यो विनयोपदेशः, 'मा य चंडालियं कासी' सिलोगो (१० सू० ४७) चंडो नाम क्रोधः, ऋतं सत्यं, न ऋतमनुतं, पागते तु तमेव अलियं, चंडं च अलियं च चंडालियं, अथवा चंड इति क्रोधः, अल पर्याप्तौ चंडेन अलं यस्य भवति चंडालः - पर्याशक्रेाध इत्यर्थः, चंडभावः चंडालिकं, चंडालेन कलितः चंडालः (लिज्ञः), तं मा य चंडालियं कासि, चंडाल इव चंडालः चंडालमागलाय - ति, चंडेन वा आगलितः चंडालः, आरुढोवि य हासविकहा पसंगेसु' बहुयं मा य आलवे' बहुयं बहुपरिमाणं, अमानोनाः प्रतिषेधे, भृशं लपत्यालपेत्, स्वाध्यायादिव्याघातः वायुसंपदे मा (आत्म) बाधायें, तेन कार्यमात्रं भाषेत्, 'कालेन अहिज्जित्ता' कलाभिर्निर्वर्त्तित: कालः, सूक्ष्मामपि कलां कलयत इति कालः, सकलयति भूतानि वा कालः, यो हि यस्य अध्ययनस्य कालःकालिकस्येतरस्य वा तस्मिन् काले अधीत्य 'ततो झाएज एक्कओ' उक्तं हि' एकस्य ध्यानं द्वयोरध्ययनं त्रिप्रभृतिग्रामः,' एवं लौकिकाः संप्रतिपन्नाः, वयं तु ससहायो असहायो वा रागद्वेषासहायवान् एक एव, 'आहच्च चंडालियं कटु' (११.४८) आहच्चेति कदाचित्, यदिह नाम कदाचिन्निग्रह | परस्यापि सतः सहसा चण्डालः उदीर्यते तमुदीर्णं निन्हवेत्, तद्यथाऽऽह्वानं निन्हवं, व्यपलाप इत्यर्थः, योग्यप्रकाशः कोधः, सोऽपि न निवितव्यः, तत्रात्मनिन्दव एव भवति, सदा वा अचक्षुर्दानादिभिः परैरुपलक्षयित्वा उच्यते-मवान् ममान्यस्य वा रूपित इति,
526
क्रोधवारणं
॥ २९ ॥