________________
श्रीउत्तरा० चूर्णौ
१८ संयतीया.
॥२४७॥
करोति, एवं संयमं प्रति सीदन् पापो भवति 'संनाइपिंड ० ॥ ५४५-४३६ ॥ इत्यादि, सन्नायपिंडं जेमेह जिह्वेन्द्रियासक्तः, सुखासक्तश्व समुदानं भिक्षापर्यटनं नेच्छति, एतच्च एतद्वयमपि न भवति, तथा गृहस्थासनानि नित्यं सेवति यः असौ पापो भवति। 'एयारिसे ० ॥ ५४६।५४७-४३७ ॥ इत्यादि, वृत्तद्वयं ईदृशः 'पंच कुसीलसंवृत्तः' पंच इति पासत्थोसण्णकुसीलणितियसंसक्तरूवधरा इत्यर्थः, मुनीनां प्रवराणां हिट्टिमो निकृष्टो जघन्य इत्यर्थः एवंप्रकारस्य आत्मा साधुलोके विषममिव गर्हितो भवति, नासौ इहलोके पूज्यः, नापि परलोके, यः पुनरेतान् दोषान् वर्जयति यदा स सुव्रतो भवति मुनीनां मध्ये, तस्यात्मा साधुलोके अमृतमिव पूज्यते, अमृतं कियद्वर्णगन्धरसोपेतं वर्णबलपुष्टिसौभाग्यजननं सर्वरोगनाशनं अनेक गुणसम्पन्नं कल्पवृक्ष फलवद मृतमभिधीयते, स एयत्थविशिष्ट इहलोकं परलोकं च आराधयतीति । इति परिसमाप्तौ उपप्रदर्शने च गुरूपदेशात्, न स्वाभिप्रायेणेति । नयाः पूर्ववत् ॥ इति पापसमणं नाम सप्तदशमध्ययनमिति १७ ॥
उक्तं सप्तदशमध्ययनं इदानीमष्टादर्श, तस्य कोऽभिसम्बन्धः १, सम्बन्धो वक्तव्यः, स च त्रिविधः, तद्यथा- 'सूत्रप्रकरणाध्याय' इत्यादि, सूत्रप्रकरणसम्बन्धौ ऊह्यौ, अध्यायसम्बन्धः सप्तदशमे पापश्रमणो व्यावर्णितः, इह पुनरष्टादशमे सुश्रमणो व्यावयेते, अनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावर्ण्य नामनिष्फले निक्खेवे संजईज्जं, 'निक्खेवो संजइज्जमि० ॥३९१-४३८॥ इत्यादि, संजयशब्दस्य चतुर्विधो निक्षेपः नामादि, यावत् ज्ञशरीर भव्यशरीरव्यतिरिक्तः त्रिविधः, एकभविकादि, भावसंजओ आगमतो नोआगमतो य, 'संजयनामं गोयं वेयंतो ० ' ॥ ३९३-४३८॥ इत्यादि, उक्तो नामनिष्पन्नो निक्षेप: । इदानीं सूत्रालापक इति, अस्मात्तावज्ज्ञेयं यावत् सूत्रं - 'कंपिल्ले नयरे० ' ॥ ५४८॥ इत्यादि, नियुक्तिगाथाः सूत्रगाथाश्च
संयताघिकारः
॥२४७॥