SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ १७ पापश्रम० ॥२४६ ॥ त्यर्थः, न क्वचित् विवेको विरतिर्वा विद्यते, न च संविभागशीलः, एतद्दोषदुष्टत्वात् न कस्यचित् प्रिया, असौ पापो भवति । 'विवायं च० ' ॥५१८-४३६ ॥ इत्यादि, खामितविउसिताई अधिकरणाई उदीरेति, अन्येषामुपशान्तानामिति विग्रहः, उदीरयति, अध|र्मशीलत्वात्, अदुवा अथवा स्वपक्षं परपक्षं वा हंति, व्युद्ग्रहे कलहे वा युक्तः - आयुक्तः, विग्रहः सामान्येन कलहो वाचिकः, यः एवंप्रकारः असौ पापो भवति । 'अधिरासणे० ॥५३९-४३६॥ इत्यादि, स्थिरासनो न भवति, निक्कारणमेव इतश्चेतश्च बंभ्रमीति, 'कुच परिस्पन्दने' दास्ताः क्रियाः करोति येन परस्य मोहमुत्पादयति, सुद्धपुढवीए ण निसीएज्जत्ति एतन स्मरति, आसनोपविष्टेनोपयुक्तेन भवितव्यं तच्च तथा न करोति यः स पापो भवति । 'ससरक्ख० ॥५४०-४३६ ॥ इत्यादि, स्वपन् पादौ न प्रमार्जयति, संधारउत्तरपादौ (पट्टी ) न प्रतिलेखयति, संस्तारके च तिष्ठन् उपयुक्तो न भवति, सर्वत्र च तिष्ठता गच्छता च उपयुक्तेन भवितव्यं, यश्चैवं न करोति असौ पापो भवति । 'बुद्धदही ० ' ॥५४१-४३६ ॥ इत्यादि, विकृति - अशोभनं गतिं नयन्तीति विगतयः, ताश्च क्षीर विगत्यादयः, विगतीमाहारयतः मोहोद्भवो भवति, न च कथंचिदपि अनशनादि तपः करोति असौ पायो भवति । 'अस्थतमि य० ॥ ५४२-४३६|| इत्यादि, अस्तमनकालेऽपि आहारं नित्यमाहारयति, यदि नाम कश्चिच्चोदयति किमिति भवं आहारं नित्यमाहारयति न चतुर्थषष्ठादि कदाचिदपि करोति १, एवं चोदितः प्रतिचोदयति यः स पापो भवति । 'आयरिय० ' ॥ ५४३-४३६ ।। इत्यादि, आचार्यपरित्यागी परपाखंड सेवकः 'गाणंगणिए' गणा गणं संचरति जघन्येन अपूर्णपण्मासे निष्कारणे असौ गाणं|गणिकोऽभिधीयते 'दुब्भूते' दुष्प्रा (दुष्टा ) र्थो, दुष्टं अशोभनं भवनं यस्य, भवनं वर्त्तनं करणमित्यर्थः, यः एवंप्रकारः स पापो भवति । | 'सयं गेहं ०' ||५४४-४३६ ॥ इत्यादि, स्वयं गृहं परित्यज्य प्रव्रज्यां गृहीत्वा परगृहेषु व्यापारं करोति, निमित्तादीनां च व्यापारं पापश्रमणं लक्षणानि ॥२४६॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy