________________
श्रीउत्तरा० चूर्णो १६. ब्रह्मचर्या ०
॥२३९॥
नशब्दस्य व निक्षेपः कर्त्तव्यः, दश एकेन विना न भवन्तीति एकस्य तावभिक्षेपः क्रियते, स सप्तप्रकारः'णामं ठवणा० ॥३७९-४२१ ॥ इत्यादि, णामैककं देवदत्तादि, स्थापनैककं द्विविधं सद्भावे असद्भावे च सद्भावस्थापनैककं लेप्यहस्त्यादि, असद्भावे अक्खादि, द्रव्यैककं सचिचादि, मातृकापदैककं' उप्परणेति वा ० ' संग्रहैककं ग्रामादि, पर्यायैककं एको जीवपर्यायो नारकादि, अजीवपर्यायो वा गन्धादि, भावैककं औदयिको भाव इति । इदानीं दशशब्दस्य निक्षेप :- 'दससु अ छक्को० ॥३८० - ४२२॥ इत्यादि, नामदशा दश नामानि देवदत्तयज्ञदत्तादीनि स्थापनादेश स्थापनाथा (दशा) नां स्थापना, सद्भावे असद्भावे च द्रव्यदश दश सचित्तादीनि द्रव्यानि, क्षेत्रदश दश आकाशप्रदेशा दशसु वा क्षेत्रेषु यद् द्रव्यमवगाढं, कालदश दश समया दशसमयस्थितिकं वा यद् द्रव्यं, भावदशा पर्या यद्वयं (दशक), जीवपर्याया अजीव पर्यायाश्च, देशकालपर्याया (क्रोधादयः) नरकादिगतयश्चत्वारः, साकारोपयोगोऽनाकारोपयोगथ, अमी जीवपर्याया दश, अजीवपर्याया रूपरसगन्धस्पर्शशब्दाः शुभा शुभाश्व पर्यायाः।। ' वं भंगी उ चउकं० ॥३८१-४२२॥ इत्यादि, नामब्रह्म ब्रह्म इति यस्य नाम, ठवणावंभं वण्णुष्पत्ती जहा बंभचेरेसु, द्रव्यब्रह्म अज्ञानीनां वस्तिनिग्रहः, मोक्षाधिकारशून्यत्वात्, भावेऽपि वस्तिनिग्रहः एव ब्रह्मचर्यमभिधीयते ज्ञानिनां मोक्षपथास्थितानां तस्य रक्षणार्थममूनि वसत्यादीनि स्थानानि रक्षणीयानि सूत्राभिहितानि । 'चरणे छक्को० ॥ ३८३-४२२ ॥ इत्यादि, चरणे षट्को निक्षेपः, नामस्थापने पूर्ववत्, द्रव्यचरणं द्विविधं गतौ भक्षणे च वर्त्तते, गतौ भूम्यां गच्छति, चरणे मोदकादीन् भक्षयति, क्षेत्रचरणं यस्मिन् क्षेत्र गच्छति भक्षयति वा, यस्मिन् वा क्षेत्रे चरणं व्यावर्यते, एवं कालचरणमपि, भावचरणं गुणानां चरणं । 'समाधीए उ चउक्को० ॥३८४-४२२ ॥ इत्यादि, समाधिशब्दस्य चतुर्धा निक्षेपः, नामस्थापने पूर्ववत्, द्रव्यसमाधिः येन द्रव्येण समाधिः उत्पद्यते, भावसमाधिः ज्ञानदर्शनचारित्रतपआत्मिका, स्थाप
एकदशक ब्रह्मसमाधि निक्षेपाः
| ॥२३९॥