________________
श्रीउत्तरा० चूर्णों
१५
भिक्षु०
॥२३५॥
मेव यः तत्परित्यजेत्, 'अकामकामे' अकामः - अपगतकामः कामो द्विविधः-- इच्छाकामो मदनकामश्च, अपगतकामस्य या इच्छा वां कामयति, सा च कामेच्छा मोक्षं कामयतीति, प्रार्थयतीत्यर्थः, 'अण्णायएसी परिव्वए' अज्ञातैषी, अज्ञातमज्ञातेन एषते - भिक्षते असौ अज्ञातैषी, निश्रादिरहित इत्यर्थः, परिव्रजेत् समन्ताद् व्रजेत्, सर्वप्रकारं सर्वभावेनेत्यर्थः, य एवंगुणविशिष्टः स भिक्षुर्भवति । 'राओवश्यं चरिज्ज लादे० ' ।।४९५-४३० ।। इत्यादि, रात्रादुपरतं चरेत् किमुक्तं भवति, रात्रौ न भुङ्क्ते, रात्रौ गतादि क्रियां न कुर्यात् विरते विरतीभावात् विरतिग्रहणाच्चारित्रं गृह्यते, पंच महाव्रतादिकं कर्म्मचयरिक्तीकरणे चारित्रं, वेदं वेतीति वेदवित्, वेदः श्रुतज्ञानं, संपन्नो भवेदित्यर्थः, अत्ता रक्षितो चारित्रात्मरक्षितो भवेत् प्राज्ञो विदुः, संपन्नो आयोपायविधिज्ञो भवेत्, उत्सर्गापवादद्रव्याद्यापदादिको य उपायः, 'अभिभूय परीसहान् अभिभूय तिरस्कृत्य 'सम्वदंसी' आत्मवत्सर्वदर्शी भवेत्, 'जे कम्हिवि न मुच्छिए' यः कस्मिंश्चिदपि न मूर्छितो भवति, न रागं गच्छतीत्यर्थः, प्रतिपक्षेण द्वेषं न गच्छतीति स भिक्षुरिति ।।'अक्कोस वहं ० ' ।। ४९६-४२०॥ इत्यादि, एवं वक्ष्यमाणेषु रागद्वेषविप्रमुक्तेन भवितव्यं, यदि कश्चिदाक्रोशयतिबन्धं वा करोति, तद्विचितयित्वा आलोच्य धीरो भवेत्, न क्षोभः करणीयः, कथम् ?- आक्रोशति मां बालः तत्र लाभ एव मन्तव्यः दिष्टथा वा यद् मां न ताडयति, ताडयत्यपि वाले लाभ एव मन्तव्यः दिष्टया च यन्मां जीवितान्न व्यपरोपयति, एवमादि, तथा च "आक्रुष्टेन मतिमता तत्रार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किन्नु कोपेन १ ॥ १ ॥ " मुनिर्भूत्वा गच्छेत्, ज्ञानी भूत्वा संयमं अव्यग्रमनाः चरेत्, यापयन्नित्यमात्मगुप्तः सचारित्रात्मको गुप्तो भवेत् इति, अन्यग्रमनसा असंप्रहृष्टेन च भवितव्यं कथं १, दुःखे समुत्पन्ने न शोकार्त्तेन भवितव्यं, सुखे च समुत्पन्ने न प्रहृष्टेन भवितव्यं, एवं सर्वमपि
भिक्षु
लक्षणं
॥२३५॥