________________
श्रीउत्तरा० चूर्णौ १० द्रुमपत्रके
॥१९३॥
बब्बूलकण्टकादि अवसोधेउ जहा गम्मति, एवं भावकण्टका हि तावसचरकपरिब्राजकादि कुश्रुतिस्कन्धक, यथा तान् कुश्रुतिकण्टकान् अवसोहिय उत्तिनोसि एवं महालयं अवतीर्णस्त्वं, पथं सम्यग्दर्शनचारित्रमयं 'महालय'ति आलीयन्ते तस्मिन्नित्यालयः, महामार्ग इत्यर्थः, 'गच्छसि मग्गं विसोहिया' यास्यसि मार्ग - सम्यग्दर्शनज्ञानचारित्रमयं विशोधयितुं, अतिचारविरहितं कृत्वेत्यर्थः समयं गोयमा !|| 'अपले जह भारवाहए० ॥ ३२२-३४१ ॥ वृत्तं यथा अबलो भारवाहकः पर्वतं दुर्गं पन्थानमवगाह्य अबलत्वान्तं सुवर्णभारं भाण्डभारं वा प्रोज्झच स्वगृहं प्राप्तः तैर्निर्धनत्वाद्विभवहीनः पश्चादनुतप्यते, तद्वदेव भवानपि संयमभारं मुक्त्वा स पच्छा पच्छातावए, समयं गोतमा ! | 'तिष्णो हुसि अण्णवं महं० ॥३२३-३४१ ॥ वृतं, तीर्णवान् तीर्णः तीर्यत इति वा, अतरणशीलो वा अण्णवो, किं पुण चिट्ठसि तीरमागओ ?, द्रव्यार्णवः समुद्रः, भावार्णवस्तु संसार एव, उक्कोसडितियाणि वा कम्मणि, तस्य भवार्णवस्य तीरं प्राप्तः किमुक्तं भवति ?- उक्कोसद्वितीयाणि सव्वाणि खवइत्ता थोवकम्मावसेस इत्यर्थः, अत्रसेसाणं अभितुर पारं गमेत्तर, समयं गोतमा ॥ 'अकलेवर सेणि मूसिया० ॥३२४-३४२ ॥ वृत्तं, कलेवरं नाम सरीरं, न कडेवरं २, श्रयंति तामिति श्रेणि, अशरीरश्रेणिरित्यर्थः, सा त संजमट्ठाणाणि सेणी, तं संजमद्वाणसेणि उस्सविय उवरिमाई २ संजमट्ठाणाणि उवसरंतो सिद्धिं गोतम ! लोगं गच्छति, खेमं शिवं अणुत्तरं, णत्थि ततो अनुत्तरंति समयं गोतमा ! | 'बुद्धे परिणिच्छुए चरे० ॥३२५-३४२ ॥ वृत्तं, धम्मे बुद्धो, परिणिच्युतो णाम रागदोसविमुक्के, चरेदिति अनुमतार्थे, कुत्र चरे, गामे नगरे तु, तत्र जो वा ग्रसति बुद्धयादीन् गुणानीति ग्रामः, नात्र करो विद्यत इति नकरं, सम्यग् यते, 'संतिमग्गं च वूहए' शमनं शान्तिः शान्तेः मार्ग: २, अधवा शान्तिरेव मार्गः शान्तिमार्गः, बृंहयेत बृहये, बुद्धः परानपि बोधयेदित्यर्थः, समयं गोतमा । ततः स भगवान्
संयमशुद्धि प्रभृति
॥१९३॥