________________
श्रीउत्तरा० चूर्णौ
६ क्षुल्लक
निग्रंथीय
॥१५५॥
| यथा कामपि दिशं न विराधयेत् उक्तं प्राणातिपातविरमणं, अपरिग्रहप्रसिद्धये तु 'बहिया उड्ढमायाय' ।। १७३-२६८ ।। सिलोगो, स्यात् प्रागुपदिष्टं यथा 'अम्मत्थं सव्वतो सव्वं', तथैव च 'आदानं नरकं दिस्से ति प्राणातिपातविरमणं परिग्रहविरती य भणिता, किं पुण भण्णति, उच्यते, तत्र भेदा नोपदिष्टाः, इह तु अष्टादश दिश उक्ताः परिग्रहेऽपि तत्राविशिष्टमुक्तं —- आदाणं णरकं, इह वि शिष्यते इदं ग्राह्यमिदमग्राह्यमिति, तद्यथा- 'बहिया उड्ढमायाय' हेट्ठा बहिया, उद्धियत इति ऊर्द्ध, ऊर्द्ध नामात्मानं वर्जयेत्यर्थः, यथा लोकायताः प्रतिपन्नाः ऊर्द्ध देहात्पुरुषो न विद्यते, देह एव आत्मा, तत्रात्मानं शरीरोपचारं कृत्वोपदिष्यते 'बहिया. | उदमायाय, नावखे कयाइवि', स्यात्- शरीरात्मा किंनिमित्तं धार्यते ?, उच्यते 'पुच्वकम्मक्खयडाए' पूरयतीति पूर्व, क्रियते इति कर्म, क्षेपणं क्षयः, 'हम' मिति इदं औदारिकं सम्यक् उद्धरेत् खुहादिपरिस्सहेहिं पडमाणं समुद्धरे, तस्यैवं पूर्वकर्मक्षयहेतोः तं देहं धारयतः साम्प्रतं कर्माऽनुपचयहेतोः इदमपि दिश्यते, किं ?, 'विविच्च कम्मुणो हेउ' ।।१७४-२६९॥ सिलोगो, विचिच्येत्यनुमतार्थे उपदेशो वा क्रियत इति कर्म्म, हिनोतीति हेतु:, हेतुरिति यत्तः कर्म्म प्रसवति स चाविधैव, उक्तं हि "कण्णं भंते ! जीवा अट्ठ कम्मपगडीओ बंधंति ?, रागा दोसा वा " बन्धहेतवः एकैकस्य तु तत्प्रदोषनिवादयः, एवं सर्वत्र, तेषु लोके वा केच्चिरं कालं णिरुंभितव्याः, उच्यते- 'कालकंस्त्री परिव्वए' कालनाम यावदायुषः तं पंडितमरणकालं काइक्षमाणः | सर्वत्रासम्बध्यमानः परित्रजेत्, सर्वासवैरित्यर्थः, स एव निरुद्धाश्रवो यावत्कालं काङ्क्षतो आराच्छरीरधारणार्थमाहाराद्युपग्रहणं करोति, न हि निरुपग्रहाणि शरीराणि शक्यन्ते उद्घोढुं तत्रोपग्रहमाहारः उपकरणं वा, तत्राहारपरिणामार्थमपदिश्यते 'मातं पिंडस्स पाणस्स' मीयते मात्रा, पिण्डयति तमिति पिण्डः, पिण्डग्रहणात् त्रिविध आहारः, पाणग्रहणात् पानकमेव, कडं नाम
अपरिग्रहतादि
॥ १५५ ॥