________________
श्रीउत्तरा० चूर्णो
६ क्षुल्लक निग्रंथीय
॥१४६॥
67%%%%%
तिसेवनाकुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा । लिङ्गमिति लिङ्गं द्विविधं द्रव्यलिङ्गं भावलिगं च, भावलिगं प्रतीत्य सर्वे निर्ग्रन्थलिड्ग भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः । लेश्याः पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति, चकुशप्रतिसेवनाकुशलयोः सर्वा अपि, कपायकुशीलस्य परिहारविशुद्धेस्तिस्र उत्तराः, सूक्ष्मसंपरायस्य निर्ग्रन्थस्नातकयोथ शुक्लैव केवला भवति, अयोगः शैलशी प्रतिपन्नोऽलेश्यो भवति । उपपातः पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे, वकुशप्रतिसेवनाकुशीलयो - विंशतिसागरोपमस्थितिष्वच्युते कल्पे, कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपस्थितिषु सर्वार्थसिद्धे, सर्वेषामपि जघन्यं पल्योपमपृथक्त्वस्थितिषु सौधर्मे, स्नातकस्य निर्वाणमिति । स्थानम् - असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति, तत्र सर्वजघन्यानि ( संयम ) लब्धिस्थानानि पुलाककपायकुशीलयोः, तौ युगपदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छि द्यते, कपायकुशीलस्ततोऽसंख्येयानि स्थानान्येकाकी गच्छति, ततः कषायकुशील प्रतिसेवनाकुशीलच कुशा युगपदसंख्येयानि | स्थानानि गच्छन्ति, ततो बकुशो व्युच्छिद्यते, तत्रोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसंख्येयानि स्थानानि गत्वा कपायकुशीलो व्युच्छिद्यते, अत ऊर्ध्वमकपायस्थानानि गत्वा निर्ग्रन्थः प्रतिपद्यते, अत ऊर्ध्वमकषायस्थानं गत्वा निर्ग्रन्थः स्नातकः निर्वाणं प्राप्नोति एषां संयमलब्धिरनन्तगुणा भवति, 'उक्कोसो उ नियंठो ॥२३९-२६० ॥ गाहा, जो उक्को - सरसु संयमट्ठाणेसु वट्टति सो उक्कोसणियंठो भण्णति, जहण्णतो जहन्नएम, सेसा अजहण्णमणुक्कोस्सत्ति, जेत्तियाणि संजमट्ठाणाणि तत्तिया णिग्गंथा, नास्य ग्रन्थो विद्यत इति निर्ग्रन्थः, निर्गतो वा ग्रन्थतो निग्गंथो, सो गंथो दुविहो । २४०-२६० ।। अभितरो बाहिरो य, अभ्यंतरो चोदसविहो, बाहिरो दसविहो, अग्भितरो इमाए गाहाए भण्णति- 'कोहो माणो माया ॥२४१ - २६९॥ गाथा,
संयमादिभिर्निग्रंथविचार:
॥१४६॥