SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नन्दिमूत्रम् ॥९७॥ पुनरपि रोहकः सुष्वाप, तृतीये च रजन्या यामेऽपगते भूयो राज्ञा शब्दितः, किं रे जागर्षि किं वा स्वपिपि ?, सोऽवादीत - देव ! जागर्मि, किं रे चिंतयन् वर्त्तसे ?, देव ! पाडहिला जीवस्य यावत् मात्रं शरीरं तावत् मात्रं पुच्छं उत न्यूनाधिकमिति ?, तत एवं उक्ते राजा निर्णयं कर्तुं अशक्तः तं एवापृच्छत् - कोऽत्र निर्णय: १, सोऽवादीत् - देव ! समं इति ॥ १२ ॥ ततो रोहकः सुप्तः, प्राभातिके च मंगलपटहक निखने सर्वत्र प्रसरमधिरोहति राजा प्रबोधं उपाजगाम, शब्दितवान् च रोहकं, स च निद्राभरं उपारूढो न प्रतिवाचं दत्तवान् । ततो राजा लीलाकम्बिकया मनाक् तं स्पृष्टवान् ततः सोऽपगतनिद्रो जातः, पृष्टश्च किं रे स्वपिषि १ स प्राह-देव ! जागर्मि, किं रे तर्हि कुर्वन् तिष्ठसि ? देव चिंतयन् किं चिंतयसि ? देव ? एतत् चिंतयामि कतिभिर्जातो देव इति, तत एवमुक्ते राजा सत्रीडं मनाकू तूष्णीं अतिष्ठत्, ततः क्षणानन्तरं पृष्टवान् कथय रे कतिमिः अहं जातः ? इति ?, स प्राह- देव ? पंचभिः, राजा भूयोऽपि पृष्टवान् केन केन इति ?, रोहक आह- देव एकेन तावत् [ वैश्रवणेन ], वैश्रवणस्य इव भवतो दानशक्तेः दर्शनात्, द्वितीयेन चंडालेन, वैरिसमूहं प्रति चंडालस्य इव कोपदर्शनात्, तृतीयेन, रजकेन, यतो रजक इत्र वस्त्रं परं निःपीड्य तस्य सर्वं अपहरन् दृश्यसे, चतुर्थेन वृश्चिकेन, यत् मां अपि बालकं निद्राभरसुप्तं लीलाकंबिकाग्रेण वृश्चिक इव निर्दयं तुदसि, पंचमेन निजपित्रा, येन यथावस्थितं न्यायं सम्यग् परिपालयसि । एवमुक्ते राजा तूष्णीं आस्थाय प्राभातिकं कृत्यं अकार्षीत् । जननीं च नमस्कृत्य एकांते पृष्टवान् कथय मातः ! कतिभिः अहं जात इति ?, सा प्राह वत्स ! किं एतत् प्रष्टव्यं १, निजपित्रा त्वं जातः, ततो राजा रोहकोक्तं कथितवान् वदति च - मातः ! स रोहकः प्रायोऽलीकबुद्धिर्न भवति ततः कथय सम्यक् तच्चमिति तत एवं अतिनिर्बंधे कृते सति सा कथयामासयदा तव गर्भाधानं आसीत् तदाऽहं बहिरुद्याने वैश्रवणपूजनाय गतवती, वैश्रवणं च यक्षं अतिशायिरूपं दृष्ट्वा हस्तसंस्पर्शेन च अवचूरिसमलंकृतम् ॥ ९७ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy