________________
अवचूरिसमलंकृतम्
नन्दिसूत्रम् परमान्नं संपद्यते । तथैव कृतं, जातं परमानं, निवेदितं राज्ञे, विस्मितं तस्य चेतः॥९॥ ततो राज्ञा रोहकस्य बुद्धि-अतिशयं अवगम्य
तदाकारणाय समादिष्टं येन बालकेन ममादेशाः सर्वेऽपि प्रायः स्वबुद्धिवशात् संपादिताः तेन च अवश्यं आगंतव्यं, परं न शुक्लपक्षे नापि ॥९६॥
कृष्णपक्षे न रात्रौ न दिवा, न छायायां नापि आतपे न आकाशे न पादाभ्यां, न पथा नापि उत्पथेन न स्नातेन न अस्वातेन, तत एवं आदिष्टे स रोहकः कंठस्नानं कृत्वा गंत्रीचक्रस्य मध्यभूमिभागेन ऊरणमारूढो धृतचालनीरूपातपत्रः संध्यासमये अमावास्याप्रतिपत्संगमे नरेन्द्रपार्श्व अगमत् , स च 'रिक्तहस्तो न पश्येत, राजानं देवतां गुरुं' इति लोकश्रुतिं परिभाव्य पृथिवीपिंडमेकं आदाय गतः । प्रणतो राजा, मुक्तश्च तत् पुरतः पृथिवीपिंडस्ततः पृष्टो राज्ञा रोहकः। रे रोहक! किमेतत् ? रोहकोऽवादीत-देव ! देवपादाः पृथिवीपतयः ततो मया पृथिवी समानीता, श्रुत्वा च इदं प्रथमदर्शने मंगलं वचस्तुतोष राजा, मुत्कलितः शेषो ग्रामलोकः, रोहकः
पुनः आत्मपार्श्व शायितः, गते च यामिन्याः प्रथमे यामे रोहकः शब्दितो राज्ञा-रे जागर्षि किं वा खपिषि ?, स प्राह-देव ! हा जागर्मि, रे तर्हि किं चिंतयसि ?, स प्राह-देव ! अश्वत्थपत्राणां किं दंडो महान् उत शिखा इति ?, तत एवमुक्ते राजा संशयं आफ्नो
वदति-साधु चिंतितं, कोत्र निर्णयः?, ततो राजा तं एव पृष्टवान्-रे ! कथय कोत्र निर्णयः १, इति तेन उक्त-देव ! यावदद्यापि शिखाग्रभागो न शोषमायाति तावत् द्वे अपि समे, ततो राज्ञा पार्श्ववर्ती लोकः पृष्टः, तेन च सर्वेणापि अविगानं ततः प्रतिपन्नं
॥१०॥ ततो भूयोऽपि रोहकः सुप्तवान् , पुनः अपि द्वितीये यामेऽपगते राज्ञा शब्दितः पृष्टश्च-किं रे जागर्षि ? किं वा खपिषि १, 8स प्राह-देव! जागर्मि, रे किं चिंतयसि!, देव ! छागिकाया उदरे कथं भ्रम्युत्तीर्णा इव वर्तुलगुलिका जायते ।
तत एवमुक्ते राजा संशयापन्नः तं एव पृष्टवान् कथय रे रोहक! कथमिति , स प्राह-देव! संवर्तिकाभिधवातविशेषात् ॥ ११॥ ततः
| ॥१६॥