________________
नन्दिसूत्रम्
यथाऽयं हस्ती मृतः इति न निवेदनीयो, अथ [च प्रतिदिवसस्य वार्ता कथनीया, अकथने महान् ग्रामस्थ दंडः, एवं च राजादेशे अवचूरि
| समागते तथैव मिलितः सर्वोऽपि बहिः सभायां ग्रामः, पृष्टश्च रोहकः, ततो रोहकेण उक्तं दीयतां अस्मै यवसः पश्चात् यत् भविष्यति तत् समलंकृतम् ॥९५॥
करिष्यामः, ततो रोहकादेशेन दत्तं यवसः तस्मै, रात्रौ च स हस्ती पंचत्वं उपगतः, ततो रोहकवचनतो ग्रामेण गत्वा राज्ञे निवेदितं
देव ! अद्य हस्ती न निपीदति नोत्तिष्ठति, न कवलं गृह्णाति, नापि नीहारं करोति, नापि उच्छासनिश्वासौ विदधाति, किंबहुना? देव!15 || का अपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितं-किं रे! मृतो हस्ती ? ततो ग्राम आह-[देव ! ] देवपादा एवं ब्रुवते, न वयं इति,
तत एवं उक्ते राजा मौनं आधाय स्थितः, आगतो ग्रामलोकः स्वग्रामे ॥५॥ ततो भूयोऽपि कतिपयदिनातिक्रमे राजा समादिष्टवान्अस्ति युष्माकं ग्रामे सुस्वादुजलपूर्णः कूपः, स इह सत्वरं प्रेषितव्यः, तत एवं आदिष्टो ग्रामो रोहकं पृष्टवान् , रोहकश्च उवाच-एप ग्रामेयकः कूपो, ग्रामेयकश्च स्वभावात् भीरुभवति न च सजातीयमंतरेण विश्वासं उपगच्छति । ततो नागरिकः कश्चिदेकः कूपः प्रेष्यतां येन तत्र एष विश्वस्य तेन सह समागच्छति, इति एवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञे निवेदितं, राजा | च स्वचेतसि रोहकस्य बुद्धि-अतिशयं परिभाव्य मौनं अवलंब्य स्थितः ॥ ७॥ ततो भूयोऽपि कतिपयवासरातिक्रमेऽभिहितवान्| वनखंडो ग्रामस्य पूर्वस्यां दिशि वर्तमानः पश्चिमायां दिशि कर्त्तव्य इति, अस्मिन्नपि राजादेशे समागते ग्रामो रोहकवुद्धिं उपजीव्य वनखंडस्य पूर्वस्यां दिशि व्यवतिष्ठत, ततो जातो ग्रामस्य पश्चिमायां दिशि बनखंडः, निवेदितं राज्ञो राजनियुक्तैः पुरुषैः॥८॥ ||९५॥ ततः पुनरपि कालांतरे राजा समादिष्टवान्-वह्निसंपर्कमंतरेण पायसं पक्तव्यमिति, सर्वो ग्राम एकत्र मिलित्वा रोहकं अपृच्छत् , रोहकश्च उक्तवान्-तंदुलानतीव जलेन भिन्नान् कृत्वा दिनकरकरनिकरसंतप्तकरीपपलालादीनां ऊष्मणि तंदुलपयोभृता स्थाली निवेश्यतां येन
PRAKASEX
PASSES