SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् यथाऽयं हस्ती मृतः इति न निवेदनीयो, अथ [च प्रतिदिवसस्य वार्ता कथनीया, अकथने महान् ग्रामस्थ दंडः, एवं च राजादेशे अवचूरि | समागते तथैव मिलितः सर्वोऽपि बहिः सभायां ग्रामः, पृष्टश्च रोहकः, ततो रोहकेण उक्तं दीयतां अस्मै यवसः पश्चात् यत् भविष्यति तत् समलंकृतम् ॥९५॥ करिष्यामः, ततो रोहकादेशेन दत्तं यवसः तस्मै, रात्रौ च स हस्ती पंचत्वं उपगतः, ततो रोहकवचनतो ग्रामेण गत्वा राज्ञे निवेदितं देव ! अद्य हस्ती न निपीदति नोत्तिष्ठति, न कवलं गृह्णाति, नापि नीहारं करोति, नापि उच्छासनिश्वासौ विदधाति, किंबहुना? देव!15 || का अपि सचेतनचेष्टां न करोति, ततो राज्ञा भणितं-किं रे! मृतो हस्ती ? ततो ग्राम आह-[देव ! ] देवपादा एवं ब्रुवते, न वयं इति, तत एवं उक्ते राजा मौनं आधाय स्थितः, आगतो ग्रामलोकः स्वग्रामे ॥५॥ ततो भूयोऽपि कतिपयदिनातिक्रमे राजा समादिष्टवान्अस्ति युष्माकं ग्रामे सुस्वादुजलपूर्णः कूपः, स इह सत्वरं प्रेषितव्यः, तत एवं आदिष्टो ग्रामो रोहकं पृष्टवान् , रोहकश्च उवाच-एप ग्रामेयकः कूपो, ग्रामेयकश्च स्वभावात् भीरुभवति न च सजातीयमंतरेण विश्वासं उपगच्छति । ततो नागरिकः कश्चिदेकः कूपः प्रेष्यतां येन तत्र एष विश्वस्य तेन सह समागच्छति, इति एवं निरुत्तरीकृत्य मुत्कलिता राजनियुक्ताः पुरुषाः, तैश्च राज्ञे निवेदितं, राजा | च स्वचेतसि रोहकस्य बुद्धि-अतिशयं परिभाव्य मौनं अवलंब्य स्थितः ॥ ७॥ ततो भूयोऽपि कतिपयवासरातिक्रमेऽभिहितवान्| वनखंडो ग्रामस्य पूर्वस्यां दिशि वर्तमानः पश्चिमायां दिशि कर्त्तव्य इति, अस्मिन्नपि राजादेशे समागते ग्रामो रोहकवुद्धिं उपजीव्य वनखंडस्य पूर्वस्यां दिशि व्यवतिष्ठत, ततो जातो ग्रामस्य पश्चिमायां दिशि बनखंडः, निवेदितं राज्ञो राजनियुक्तैः पुरुषैः॥८॥ ||९५॥ ततः पुनरपि कालांतरे राजा समादिष्टवान्-वह्निसंपर्कमंतरेण पायसं पक्तव्यमिति, सर्वो ग्राम एकत्र मिलित्वा रोहकं अपृच्छत् , रोहकश्च उक्तवान्-तंदुलानतीव जलेन भिन्नान् कृत्वा दिनकरकरनिकरसंतप्तकरीपपलालादीनां ऊष्मणि तंदुलपयोभृता स्थाली निवेश्यतां येन PRAKASEX PASSES
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy