SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अवचूरिसमलंकृतम् नन्दिसत्रमा कारितो रोहका, आभाषितश्च ग्रामप्रधानः पुरुषः-वत्स! प्राचीनं अपि दुष्टराजादेशसिंधुं त्वया एव निजबुद्धिसेतुबंधेन समुत्तारितः | सर्वोऽपि ग्रामस्ततः संप्रति अपि प्रगुणीकुरु निजबुद्धिसेतुबंधं येन अस्यापि दुष्टराजादेशसिंधोः पारं अधिगच्छाम इति, तत उवाच ॥९४॥ रोहको-वृकं प्रत्यासन्नं धृत्वा मेण्ढकं एनं यवसदानेन पुष्टीकुरुतः यवसं हि भक्षयन् एष न दुर्बलो भविष्यति, वृकं च दृष्ट्वा न वृद्धिं आप्यति इति, ततस्ते तथैव कृतवंतः, पक्षातिक्रमे च तं राज्ञः समर्पयामासुः, तोलने च य तावत्पलप्रमाण एव जातः ॥२॥ ततो भूयोऽपि कतिपयदिनानंतरं राज्ञा कुर्कुटः प्रेषितः । एष द्वितीयं कुर्कुटं विना योधयितव्य इति, एवं संप्राप्ते राजादेशे मिलितः सर्वोऽपि ग्रामो बहिः सभायां आकरितो रोहकः कथितश्च तस्य राजादेशः । ततो रोहकेण आदर्शको महाप्रमाण आनायितो निसृष्टश्च भृत्या ४ सम्यक, ततो धृतः पुरो राजकुर्कुटस्य, ततः स प्रतिबिंबं आत्मीय आदर्श दृष्ट्वा मत्प्रतिपक्षः अयं अपरः कुकूट इति मत्वा साहंकारं योढुं प्रवृत्तो, जडचेतसो हि प्रायः तियचो भवति । एवं च अपरकुकुटमंतरेण योधिते राजकुकटे विस्मितः सर्वोऽपि ग्रामलोका, | संपादितो राजादेशः, निवेदितं [च] राज्ञे निजपुरुषैः॥३॥ ततो भूयोऽपि कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषितवान्-युष्मत-ग्रामस्य सर्वतः समीपेऽतीव रमणीया वालुका विद्यते, ततः स्थूला वालुकामयाः कतिपयदवरकाः कृत्वा शीघ्रं प्रेषणीया इति, एवं च राजादेशे समागते मिलितः सर्वोऽपि बहिः सभायां ग्रामः पृष्टश्च रोहकः, ततो रोहकेण प्रत्युत्तरं अदायि । नटा वयं, ततो नृत्यं एव वयं कर्तुं जानीमो न दवरकादि, राजदेशश्च अवश्यं कर्त्तव्यः, ततो बृहत् राजकुलं इति चिरंतना अपि कतिचित् वालुकामया दवरका भविष्यति इति तन्मध्यात् एकः कश्चित् प्रतिच्छंदभूतः प्रेषणीयो येन तदनुसारेण वयमपि वालुकामयान् दवरकान् कुर्म इति, ततो निवेदितं एतद्राक्षे नियुक्तपुरुषैः, राजा च निरुत्तरीकृतः तूष्णीमास्ते ॥४॥ ततः पुनरपि कतिचित् दिनानंतरं जीर्णहस्ती रोगग्रस्तो मुमूर्षुः ग्रामे राज्ञा प्रेषितो, GORMS-CC ॥९४॥ जन
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy