________________
नन्दिमूत्रम्
| युष्मद्वामस्य बहिरतीव महती शिला वर्तते, तामनुत्पाठ्य राजयोग्यमण्डपाच्छादनं कुरुत, तत एवमादिष्टे सकलोऽपि ग्रामो राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान् , पृच्छति स्म परस्परं-किमिदानी कर्तव्यं ? दुष्टो राजादेशो-ICIAL
अवचूरिऽस्माकमापतितो, राजादेशाकरणे च महाननर्थोपनिपातः, एवं च चिन्तया व्याकुलीभूतानां तेषां मध्यन्दिनमागतं, रोहकश्च पितरमन्तरेण न भुते, पिता च ग्राममेलापके मिलितो वर्तते, ततः स क्षुधापीडितः पितुः समीपे समागत्य रोदितुं प्रावर्तत पीडितोऽहमतीव क्षुधा (धया) ततः समागच्छ गृहे भोजनायेति, भरतः प्राह-वत्स! सुखितोऽसि त्वं, न किमपि ग्रामकष्टं जानासि, स प्राह-पितः! किं किं तदिति ?, ततो भरतो राजादेशं सविस्तरमचीकथत् , ततो निजबुद्धिप्रागल्भ्यवशात् झटिति कार्यस्य साध्यतां परिभाब्य तेनोक्तंमाऽऽकुलीभवत यूयं, खनत शिलाया राज्ञोचितमण्डपनिष्पादनायाधस्तात् स्तम्भांश्च पथास्थानं निवेशयत भित्तीश्वोपलेपनादिना प्रकारेणातीवरमणीयाः प्रगुणीकुरुत, तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपन्न, गतः सर्वोऽपि ग्रामलोकः स्वस्वगृहे भोजनाय, भुक्त्वा च समागतः शिलाप्रदेशे, प्रारब्धं तत्र कर्म, कतिपयदिनैश्च निष्पादितः परिपूर्णो मण्डपः, कृता च शिला तस्याच्छादनं, 1 | निवेदितं च राज्ञे राजनियुक्तैः पुरुषैः-देव! निष्पादितो ग्रामेण देवादेशः, राजा प्राह-कथमिति?, ततस्ते सर्वमपि मण्डपनिष्पादनप्रकारं कथयामासुः, राजा पप्रच्छ-कस्येयं बुद्धिः, तेऽवादिषुः,-देव! भरतपुत्रस्य रोहकस्य, एषा रोहकसौत्पत्तिकी बुद्धिः। एवं सर्वेष्वपि संविधानेषु योजनीयं ततो भृयोपि| राजा रोहकबुद्धिपरीक्षार्थ मेण्डक प्रेपितवान् , एप यावतपलः संप्रति वर्तते पक्षातिक्रमेऽपि तावन्यलक्रम एव समर्पणीयो, न न्यूनो
॥९३॥ नापि अधिक इति, तत एवं राजादेशे समागते सति सर्वोऽपि ग्रामो व्याकुलीभूतचेता बहिः सभायां एकत्र मिलितवान् , सगौरवमा
ROCKGRO
न. सू.८