________________
नन्दिसूत्रम्
॥९२॥
*AMERASANSOMSEX
भार्यायां इति पश्चात्तापात् गाढतरं अस्यां अनुरक्तो बभूव । सोऽपि रोहको मया विप्रियं कृतमास्तेऽस्या इति कदाचित् एषा मां विषादिना है। अब | मारयिष्यति इति विचिंत्य सदैव पित्रा सह मुंक्ते न कदाचिदपि केवलो, अन्यदा च पित्रा सह उज्जयिनी पुरीमगमत् । दृष्टा च तेन त्रिद-12]समलंकृतम् शपुरीव उज्जयिनी, सविस्मयचेतसा च सकलापि यथावत् परिभाविता, ततः पित्रा एव सह नगर्या निर्यातं आरेमे. पिता च किं अपि विस्मृतं इति रोहकं क्षिप्रानदीतटेवस्थाप्य तदानयनाय भूयोऽपि नगरी प्राविक्षत् । रोहकोऽपि च तत्र क्षिप्राभिधसिंधसकते बालचापलवशात् सप्रकारां परिपूर्णा अपि पुरी सिकताभिः आलिखत् । इतश्च राजा अश्ववाहनिकायां अश्वं वाहयन् कथंचिदेकाकीभूतः तेन पथा | समागंतुं प्रावर्तत । तं च आलिखितनगरीमध्येन समागच्छंतं रोहकोवादीत-भो राजपुत्र ! माऽनेन पथा समागमः, तेन च उक्तं-किं इति ? रोहक आह-किं त्वं राजकुलं इदं न पश्यसि ? ततः स राजा कौतुकवशात्सकलामपि नगरी तत् आलिखितामवेक्षत, पप्रच्छ त बालकं रे! अन्यदापि त्वया नगरी दृष्टासीत न बा ?, रोहक आह-नैव कदाचित् , केवलमहं अद्य एव खग्रामात् इह आगतस्ततः चिंतयामास राजा-अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहको-वत्स! किं ते नाम व वा ग्राम इति ?, तेन उक्तं-रोहक इति मे नाम, प्रत्यासने च पुरोग्रामे वसामि इति, अत्रांतरे समागतो रोहकस्य पिता, चलितौ च खग्राम प्रति द्वौ अपि, राजा च स्वस्थानं अगमत, चिंतयति स्म च-मम एकोनानि मंत्रिणां पंचशतानि विद्यते । तद्यदि सकलमंत्रिमंडलमूर्धाभिषिक्तो महाप्रज्ञातिशायी परमो मंत्री संपद्यते ततो मे राज्यं सुखेनैधते, बुद्धिवलोपेतो हि राजा प्रायः शेषवलैः अल्पवलोऽपि न पराजयस्थानं भवति, परांश्च राज्ञो ॥९ ॥ लीलया विजयते, एवं च चिंतयित्वा कतिपयदिनानंतरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्ट-यथा
१ मलयगिरीयनन्दीवृत्तौ पृष्ठे १४५ कृतमास्तेऽस्या इति सुरूपमपि विरूपं मत्वा आस्ते इत्यत्रास्तीति संशोधनं भ्रान्तिमूलमिति वेदनीयम्।