SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥९२॥ *AMERASANSOMSEX भार्यायां इति पश्चात्तापात् गाढतरं अस्यां अनुरक्तो बभूव । सोऽपि रोहको मया विप्रियं कृतमास्तेऽस्या इति कदाचित् एषा मां विषादिना है। अब | मारयिष्यति इति विचिंत्य सदैव पित्रा सह मुंक्ते न कदाचिदपि केवलो, अन्यदा च पित्रा सह उज्जयिनी पुरीमगमत् । दृष्टा च तेन त्रिद-12]समलंकृतम् शपुरीव उज्जयिनी, सविस्मयचेतसा च सकलापि यथावत् परिभाविता, ततः पित्रा एव सह नगर्या निर्यातं आरेमे. पिता च किं अपि विस्मृतं इति रोहकं क्षिप्रानदीतटेवस्थाप्य तदानयनाय भूयोऽपि नगरी प्राविक्षत् । रोहकोऽपि च तत्र क्षिप्राभिधसिंधसकते बालचापलवशात् सप्रकारां परिपूर्णा अपि पुरी सिकताभिः आलिखत् । इतश्च राजा अश्ववाहनिकायां अश्वं वाहयन् कथंचिदेकाकीभूतः तेन पथा | समागंतुं प्रावर्तत । तं च आलिखितनगरीमध्येन समागच्छंतं रोहकोवादीत-भो राजपुत्र ! माऽनेन पथा समागमः, तेन च उक्तं-किं इति ? रोहक आह-किं त्वं राजकुलं इदं न पश्यसि ? ततः स राजा कौतुकवशात्सकलामपि नगरी तत् आलिखितामवेक्षत, पप्रच्छ त बालकं रे! अन्यदापि त्वया नगरी दृष्टासीत न बा ?, रोहक आह-नैव कदाचित् , केवलमहं अद्य एव खग्रामात् इह आगतस्ततः चिंतयामास राजा-अहो बालकस्य प्रज्ञातिशय इति, ततः पृष्टो रोहको-वत्स! किं ते नाम व वा ग्राम इति ?, तेन उक्तं-रोहक इति मे नाम, प्रत्यासने च पुरोग्रामे वसामि इति, अत्रांतरे समागतो रोहकस्य पिता, चलितौ च खग्राम प्रति द्वौ अपि, राजा च स्वस्थानं अगमत, चिंतयति स्म च-मम एकोनानि मंत्रिणां पंचशतानि विद्यते । तद्यदि सकलमंत्रिमंडलमूर्धाभिषिक्तो महाप्रज्ञातिशायी परमो मंत्री संपद्यते ततो मे राज्यं सुखेनैधते, बुद्धिवलोपेतो हि राजा प्रायः शेषवलैः अल्पवलोऽपि न पराजयस्थानं भवति, परांश्च राज्ञो ॥९ ॥ लीलया विजयते, एवं च चिंतयित्वा कतिपयदिनानंतरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुद्दिश्यैवमादिष्ट-यथा १ मलयगिरीयनन्दीवृत्तौ पृष्ठे १४५ कृतमास्तेऽस्या इति सुरूपमपि विरूपं मत्वा आस्ते इत्यत्रास्तीति संशोधनं भ्रान्तिमूलमिति वेदनीयम्।
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy