SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥९१॥ ECEREMCHACKRECORDS नटानां एको ग्रामस्तत्र च भरतो नाम नटस्तस्य भार्या परासुरभूत , तनयश्चास्य रोहकाभिधोऽद्यापि अल्पवयास्ततः सत्वरं एव अवचूरिखस्य स्वतनयस्य च शुश्रूषा करणाय अन्या समानिन्ये वधूः, सा च रोहकस्य सम्यग् न वर्तते । ततो रोहकेण सा प्रत्यपादि-मातर्न || समलंकृतम् मे त्वं सम्यक् वर्तसे ततो ज्ञास्यसि इति, ततः सा सेय॑माह रे रोहक ! किं करिष्यसि ? रोहकोऽपि आह-तत् करिष्यामि येन त्वं मम पादयोः आगत्य लगिष्यसि इति । ततः सा तं अवज्ञाय तूष्णी अतिष्टन् । रोहकोऽपि तत्कालात् आरभ्य गाढसंजातामिनिवेशोऽन्यदा! निशि सहसा पितरं एवं अभाणीत् । भो! भो! पितः एष पलायमानो गोहो याति, तदेवं बालकवचः श्रुत्वा पितुः आशंका समुदपादि नूनं विनष्टा मे महेलेति । तत एवं आशंकावशात्तस्यां अनुरागः शिथिलीवभूध, ततो न तां सम्यक् संभापते, नापि विशेषतस्तस्यै पुष्पता-1 |बूलादिकं प्रयच्छति दूरतः पुनः अपास्तं शयनादि, ततः सा चिंतयामास । नूनं इदं बालकविचेष्टितं, अन्यथा कथमकांड एव एष दोषाभावे * पराशुखो जातः ? [ततो बालकमेवमवादीत , वत्स? रोहक ! किमिदं त्वया चेष्टितम् , तव पिता मे संप्रति दूरं पराङ्मुखीभूतः, रोहक-18 आह-किमिति तर्हि न सम्यग् मे वर्तसे ? तयोक्तं अत ऊर्द्ध सम्यग् वर्तिष्ये ] ततो बालक आह-भव्य, तर्हि मा खेदं कार्षीः । तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति, ततः सा तत्कालादारभ्य सम्यग्वर्तितुं प्रवृत्ता, रोहकोऽपि अन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदार्शकापनोदाय बालभावं प्रकटयन् निजच्छायां अंगुल पग्रेग दर्शयन् पितरं एवमाह-भोः पितः! एष गोहो याति गोहो | याति इति, तत एवं उक्ते स पिता परपुरुषप्रवेशाभिमानतो निःप्रत्याकारं कृपाणं उद्गीर्य प्राधावत् । रे! कथय कुत्र याति इति ?, ततः सा ॥९ ॥ रोहको बालक्रीडां प्रकटयन् अंगुल्यग्रेण निजच्छायां दर्शयति-पितः! एष गोहो याति, ततः स पिता ब्रीडित्वा प्रत्यावृत्तः चिंतयति स्म। खचेतसि-प्राक्तनोपि पुरुषो नूनमेवंविध एव आसीत् इति धिग् मया बालकवचनात अलीकै संभाव्य विप्रियमेतावंतं कालं कृतं अस्यां
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy