SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥ ९८ ॥ संजातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपांतराले च समागच्छंती चंडालयुवानं एकं अतिरूपं अपश्यम्, ततस्तमपि भोगाय स्पृहयामि स्म, ततोक्ने भागे समागच्छंती तथैव [च] रजकं दृष्ट्वाऽभिलषितवती, ततो गृहमागता सती तथाविध उत्सववशात् वृश्चिकं कणिकामयं भक्षणाय हस्ते न्यस्तवती, ततः तत्संस्पर्शतो जातकामोद्रेकात् तमपि भोगायाशंसितवती, तत एवं यदि स्पृहामात्रेण तेऽपि पितरः संभवति तन्न जाने, परमार्थतः पुनरेक एव ते पिता सकलजगत्प्रसिद्ध इति, तत एवमुक्ते राजा जननीं प्रणम्य रोहकबुद्धिविस्मितचेताः स्वावासप्रासादं अगमत् । रोहकं च सर्वेषां मंत्रिणां मूर्द्धाभिषिकं मंत्रिणं अकार्षीत् । तद् एवं 'भरहसिल' इति व्याख्यातम् || १३ | ३ | संप्रति 'पणियंति' व्याख्यायते - द्वौ पुरुषौ, एको ग्रामेयकोऽपरो नागरिकः, तत्र ग्रामेयकः स्वग्रामात् चिर्भटिकां आनयन् प्रतोलीद्वारे वर्त्तते । तं प्रति नागरिकः प्राह--यद्येताः सर्वा अपि तत्र चिर्मटिका भक्षयामि ततः किं मे प्रयच्छसि इति ?, ग्रामेयक आहयोऽनेन प्रतोयाद्वारेण मोदको न याति तं प्रयच्छामि, ततो बद्धं द्वाभ्यां अपि पणितं, कृताः साक्षिणो जनाः, ततो नागरिकेण ताः सर्वा अपि चिटिका मना मनाक् भक्षयित्वा मुक्ताः उक्तं च ग्रामेयकं प्रति-भक्षिताः सर्वा अपि त्वदीयाः चिटिकाः, ततो मे प्रयच्छ यथा प्रतिज्ञातं मोदकं इति, ग्रामेयक आह-न मे चिटिका भक्षितास्ततः कथं ते प्रयच्छामि मोदकं, नागरिकः प्राह-भक्षिता या सर्वा अपि तव चिटिकाः, यदि न प्रत्येषि तर्हि प्रत्ययं उत्पादयामि तेन उक्तं-उत्पादय प्रत्ययं ततो द्वाभ्यां अपि विपणिari विस्तारिता विक्राय चिर्भटिकाः समागतो लोकः क्रयाय, ताश्च चिर्भटिका निरीक्ष्य लोको वक्ति - ननु भक्षिताः स्वदीयाः सर्वा अपि चिटिकाः तत् कथं वयं गृह्णामः ?, एवं च लोकेनो के साक्षिणां ग्रामेयकस्य च प्रतीतिरुदपादि, क्षुभितो ग्रामेयकः, -हा ! अवचूरिसमलंकृतम् ॥ ९८ ॥
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy