SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नन्दिसूत्रम् ॥९९॥ SEX RAKHARE* कथं नु नाम मया तावत्प्रमाणो मोदको दातव्यः, ततः स भयेन कंपमानो विनयनम्रो रूपकं एकं प्रयच्छति, नागरिको नेच्छति । अवचूरिततो द्वे रूपके दातुं प्रवृत्तः तथापि नेच्छति, एवं यावत् शतं अपि रूपकाणां नेच्छति । ततस्तेन ग्रामेयकेण चिंतितं, हस्ती हस्तिनं समलंकृतम् प्रेयते । ततो धूर्त एष नागरिको वचनेन मां छलितवान् न अपरनागरिकधूर्तमंतरेण पश्चात् कर्तुं शक्यते, इति अनेन सह कतिपयदिनानि व्यवस्थां कृत्वा नागरिकधूर्तानवलगामि, तथैव कृतं, दत्ता एकेन नागरिकधूर्तेन तस्मै बुद्धिस्ततः तत्बुद्धिबलेनऽऽपूपिकापणे मोदकं एक आदाय प्रतिद्वंद्विनं धूर्त आकारितवान्, साक्षिणश्च सर्वेऽपि आकारितास्ततः तेन सर्वसाक्षिसमक्षं इंद्रकीलके मोदकोऽस्थाप्यत, भणितश्च मोदको-याहि २, मोदको न प्रयाति । ततस्तेन साक्षिणोऽधिकृत्य उक्तं-मया एवं युष्मत्समक्षं प्रतिज्ञातं-यद्यहं जितो भविष्यामि तर्हि स मोदको मया दातव्यो यः प्रतोलीद्वारेण न निगच्छति । एषोऽपि न याति, तस्मादहं मुत्कल इति । एतच्च साक्षिभिः अन्यैश्च पार्श्ववर्तिभिः नागरिकैः प्रतिपन्नं इति प्रतिजितः । प्रतिद्वंद्वी धूर्तः घृतकारः, नागरिकधूर्तस्य औत्पत्तिकी बुद्धिः। २ । रुक्खे' ति, वृक्षोदाहरणं, तत्भावना-क्वचित् पथि पथिकानां सहकारफलानि आदातुं प्रवृत्तानां अंतराय मर्कटका विदधते, ततः पथिकाः स्वबुद्धिवशात् वस्तुतत्त्वं पर्यालोच्य मर्कटकानां सन्मुखं लोष्टकान् प्रेषयामासुः, ततो रोपाबद्धचेतसो मर्कटाः पथिकानां सन्मुखं सहकारफलानि प्रचिक्षिपुः। पथिकानां औत्पत्तिकी बुद्धिः।३। तथा 'खुटुंग' त्ति, अंगुलीयकाभरणं, तत्उदाहरणभावना -राजगृहं नगरं, तत्र रिपुसमूहविजेता राजा प्रसेनजित् । भूयांसः ||९९॥ तस्य सूनवस्तेषां च सर्वेषां अपि मध्ये श्रेणिको राज्ञा नृपलक्षणसंपन्नः स्वचेतसि परिभावितो, अत एव च तस्मै न किंचिदपि ददाति, नापि च वचसापि संस्पृशति । मा शेषैः एषः परासुः विधीयेतेति बुद्ध्या, स च किंचित् अपि अलभमानो मन्युभरवशात् प्रस्थितो
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy