________________
नन्दिसूत्रम् ॥१०॥
देशांतरं जगाम | क्रमेण बेनातटं नगरं, तत्र च क्षीणविभवस्य श्रेष्ठिनो विपणौ समुपविष्टः, तेन च श्रेष्ठिना तस्यां एव रात्रौ स्वप्ने अवचूरि| रत्नाकरो निजदुहितर परिणयन् दृष्ट आसीत् । तस्य च श्रेणिकपुण्यप्रभावतः तस्मिन् दिवसे चिरसंचितप्रभूतक्रयाणकविक्रयेण महान् समलंकृतम् लाभः समुदपादि । म्लेच्छहस्ताच अनर्घाणि महारतानि स्वल्पमूल्येन समपद्यन्त, ततः सोऽचिंतयत्-अस्य महात्मनो मम समीपं उपविष्टस्य पुण्यप्रभाव एष यत् मया महती विभूतिः एतावती समासादिता, आकृतिं च तस्यातीव सुमनोहरां अवलोक्य स्वचेतसि कल्पयामास-स एष रत्नाकरो यो मया रात्रौ स्वप्ने दष्टः, ततस्तेन कृतकरांजलिपुटेन विनयपुरस्सरं आभाषितः श्रेणिकः कस्य यूयं प्राघूर्णकाः ?, श्रेणिक उवाच-भवतां इति, ततः स एवंभूतवचनश्रवणतो धाराहतकदंबपुष्पमिव पुलकितसमस्ततनुयष्टिः सबहुमानं स्वगृहं नीतवान् श्रेणिकं, भोजनादिकं च सकलमपि आत्मनोऽधिकतरं संपादयामास । पुण्यप्रभावं च तस्य प्रतिदिवसं आत्मनो धनलाभवृद्धिसंभवेनासाधारण अभिसमीक्ष्यमाणः कतिपयदिनातिक्रमे तस्मै स्वदुहितर नंदानामानं दत्तवान् । श्रेणिकोऽपि तया सह पुरंदर इव पौलोम्या मन्मथमनोरथानापूरयन् पंचविधभोगलालसो बभूव । कतिपयवासरातिक्रमे च नंदाया गर्भाधानमभूत् । इतश्च प्रसेनजित् स्वांतसमयं विभाव्य श्रेणिकस्य परंपरया वात्ता अधिगम्य तदाकारणाय सत्वरं उष्ट्रवाहनान् पुरुषान् प्रेषयामास । ते च समागत्य श्रेणिक विज्ञप्तवंतो-देव ! शीघ्रं आगम्यता, देवः सत्वरं आकारयति । ततो नंदां आपन्नसत्त्वां आपृच्छ्य 'अम्हे || रायगिहे पंडरकुद्दा गोयाला जइ अम्हेहिं कजं तो एज्झह' त्ति एतद्वाक्यं क्वचित् लिखित्वा श्रेणिको राजगृहं प्रति चलितवान् । Man नंदायाश्च देवलोकच्युतमहानुभावगर्भसत्त्वप्रभावत एवं दौहृदं उदपादि । यदहं प्रवरकुंजरमधिरूढा निखिलजनेभ्यो धनदानपुरस्सरं अभयप्रदानं करोमि इति । पिता च तत् इत्थंभूतं दोहदं उत्पन्नं ज्ञात्वा राजानं विज्ञप्य पूरितवान् । कालक्रमेण च प्रवृत्ते
***