________________
अवचूरिसमलंकृतम्
नन्दिसूत्रम । प्रसवसमये प्रातरादित्यबिंब इव दश दिशः प्रकाशयन् अजायत परमसूनुस्तस्य च दौहृदानुसारेण अभय इति नाम चक्रे
सोऽपि च अभयकुमारो नंदनवनांतर्गतकल्पपादप इव तत्र सुखेन परिवद्धते । शास्त्रग्रहणादिकं अपि यथाकाले कृतवान् । ॥१०॥ 18 अन्यदा च स्वमातरं प्रपच्छ । मातः ! कथं मे पिताऽभूत् इति?, ततः सा कथयामास समूलत आरभ्य सर्व यथावस्थितं |
वृत्तांत, दर्शयामास च लिखितानि अक्षराणि, ततो मातृवचनतात्पर्यावगमतो लिखिताक्षरार्थावगमतश्च ज्ञातं अभयकुमारणयथा मे पिता राजगृहे राजा वर्त्तते इति । एवं च ज्ञात्वा मातरं अभाणीद-व्रजामो राजगृहे सार्थेन सह वयं इति, सा प्रत्यवादीत्-वत्स ! यद् भणसि तत्करोमि इति । ततो अभयकुमारः स्वमात्रा सह सार्थेन समं ब्रजितः, प्राप्तौ राजगृहस्य बहि प्रदेश, ततोऽभयकुमारः तत्र मातरं विमुच्य किं वर्तते संप्रति पुरे? कथं वा राजा दर्शनीय ? इति विचिंत्य राजगृह पुरं प्रविष्टः । तत्र च पुरप्रवेशे एव निर्जलकूपतटे समंततो लोकः समुदायेन अवतिष्ठते । पृष्टं च अभयकुमारेण-किं इति एष
लोकमेलापकः, ततो लोकेन उक्तं,-कूपस्य मध्ये राज्ञोंगुल्याभरणमास्ते, तत् यो नाम तटे स्थितः स्वहस्तेन गृह्णाति तस्मै राजा 8महतीं वृत्ति प्रयच्छति इति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो राजनियुक्ताः पुरुषास्तैः अपि एवं एवं कथितम् । ततः अभयकुमारेण ६ | उक्तं अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तैः पुरुषैः उक्तं-गृहाण त्वं, यत् प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते । ततोऽभयकुमारण परिभावितं अंगुल्याभरणं दृष्ट्वा सम्यक् तत आर्द्रगोमयेन आहतं, संलग्नं तत् तत्र, तस्मिन् शुष्क मुक्तं कूपांतरात् पानीयं, भृतो | जलेन, परिपूर्णः स कूपः, तरति च उपरि सांगुल्याभरणशुष्कगोमयस्ततस्तटस्थेन सता गृहीतं अंगुल्याभरणं अभयकुमारेण, कृतश्च आनंदकोलाहलो लोकेन, निवेदितं राज्ञो राजनियुक्तः पुरुषः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञः समीपं, मुमोच पुरतः
॥१०॥
सरकार