SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अवचूरिसमलंकृतम् नन्दिसूत्रम । प्रसवसमये प्रातरादित्यबिंब इव दश दिशः प्रकाशयन् अजायत परमसूनुस्तस्य च दौहृदानुसारेण अभय इति नाम चक्रे सोऽपि च अभयकुमारो नंदनवनांतर्गतकल्पपादप इव तत्र सुखेन परिवद्धते । शास्त्रग्रहणादिकं अपि यथाकाले कृतवान् । ॥१०॥ 18 अन्यदा च स्वमातरं प्रपच्छ । मातः ! कथं मे पिताऽभूत् इति?, ततः सा कथयामास समूलत आरभ्य सर्व यथावस्थितं | वृत्तांत, दर्शयामास च लिखितानि अक्षराणि, ततो मातृवचनतात्पर्यावगमतो लिखिताक्षरार्थावगमतश्च ज्ञातं अभयकुमारणयथा मे पिता राजगृहे राजा वर्त्तते इति । एवं च ज्ञात्वा मातरं अभाणीद-व्रजामो राजगृहे सार्थेन सह वयं इति, सा प्रत्यवादीत्-वत्स ! यद् भणसि तत्करोमि इति । ततो अभयकुमारः स्वमात्रा सह सार्थेन समं ब्रजितः, प्राप्तौ राजगृहस्य बहि प्रदेश, ततोऽभयकुमारः तत्र मातरं विमुच्य किं वर्तते संप्रति पुरे? कथं वा राजा दर्शनीय ? इति विचिंत्य राजगृह पुरं प्रविष्टः । तत्र च पुरप्रवेशे एव निर्जलकूपतटे समंततो लोकः समुदायेन अवतिष्ठते । पृष्टं च अभयकुमारेण-किं इति एष लोकमेलापकः, ततो लोकेन उक्तं,-कूपस्य मध्ये राज्ञोंगुल्याभरणमास्ते, तत् यो नाम तटे स्थितः स्वहस्तेन गृह्णाति तस्मै राजा 8महतीं वृत्ति प्रयच्छति इति, तत एवं श्रुते पृष्टाः प्रत्यासन्नवर्त्तिनो राजनियुक्ताः पुरुषास्तैः अपि एवं एवं कथितम् । ततः अभयकुमारेण ६ | उक्तं अहं तटे स्थितो ग्रहीष्यामि, राजनियुक्तैः पुरुषैः उक्तं-गृहाण त्वं, यत् प्रतिज्ञातं राज्ञा तदवश्यं करिष्यते । ततोऽभयकुमारण परिभावितं अंगुल्याभरणं दृष्ट्वा सम्यक् तत आर्द्रगोमयेन आहतं, संलग्नं तत् तत्र, तस्मिन् शुष्क मुक्तं कूपांतरात् पानीयं, भृतो | जलेन, परिपूर्णः स कूपः, तरति च उपरि सांगुल्याभरणशुष्कगोमयस्ततस्तटस्थेन सता गृहीतं अंगुल्याभरणं अभयकुमारेण, कृतश्च आनंदकोलाहलो लोकेन, निवेदितं राज्ञो राजनियुक्तः पुरुषः, आकारितोऽभयकुमारो राज्ञा, गतो राज्ञः समीपं, मुमोच पुरतः ॥१०॥ सरकार
SR No.600169
Book TitleNandisutram Avchuri
Original Sutra AuthorDevvachak
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages240
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_nandisutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy