________________
नन्दिसत्रम्
RE
॥८९॥
न भवति तथास्वभावायां च मृदि तिष्ठत्यामवतिष्ठते इति सा तस्य कारणं, एवं श्रुतस्यापि मतिः कारणं, ततो युक्तं उक्त मतिपूर्व श्रुतं इति । न मतिः श्रुतपूर्विका ॥
समलंकृतम् स्वामिना अविशेषिता-स्वामिविशेषणपरिग्रहमंतरेण विवक्ष्यमाणा मतिः मतिज्ञानं मत्यज्ञानं च उच्यते । सामान्येन उभयत्रापि मतिशब्दप्रवृत्तेः, विशेषिता-खामिना विशेष्यमाणा सम्यग्दृष्टेः मतिः मतिज्ञानं उच्यते तस्या यथावस्थितार्थग्राहकत्वात् मिथ्यादृष्टेः मतिः मत्यज्ञानं, तस्या एकांतावलंबितया यथावस्थितार्थग्रहणाभावात् । एवं श्रुतसूत्रं अपि व्याख्येम् ,
ततो मतिज्ञानं एव अधिकृत्य शिष्यः प्रश्नयति
से किं तं आभिणिबोहियनाणं । आभिणिबोहियनाणं दुविहं पन्नत्तं तं जहा सुयनिस्सियं च असुयनिस्सियं च।से किं तं असुयनिस्सियं । असुयनिस्सियं चउब्विहं पन्नत्तं तं जहा। उप्पत्तिओं वेणइओ कम्मओं परिणामिओं ॥ बुद्धि चउब्विहा वुत्ता पंचमी नोवलम्भइ ॥१॥
अथ किं तत् आमिनिवोधिकं ज्ञानं, सूरिराह-आमिनिबोधिकं ज्ञानं द्विविधं प्रज्ञतं, तद्यथा-श्रुतनिश्रितं च अश्रुतनिश्रितंच, | उत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्य एव यत् उपजायते मतिज्ञानं तत् श्रुतनिश्रितं-अवग्रहादि, यत् पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्शिमतिज्ञानमुपजायते तत् अश्रुतनिश्रितमौत्पत्तिक्यादि, तत्राल्पतर-॥८९॥ वक्तव्यत्वात् प्रथममश्रुतनिश्रितमतिज्ञानप्रतिपादनायाह-अथ किं तत् अश्रुतनिश्रितं? सूरिराह-अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्त, तद्यथा-उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशील नादिकं प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी । तथा विनयो-गुरुशुश्रुषा स
NEHAKA