________________
नन्दिसूत्रम् ॥ ८८ ॥
नियमावधारणाथ एतदुच्यते इत्यदोषः, नियमावधारणं एव स्पष्टयति-द्वे अपि एते - आभिनिबोधिकश्रुते अन्योन्य- अनुगते - परस्पर प्रतिबद्धे, स्वात् एतदनयोः यदि परस्परं अनुगमस्तर्हि अभेद एव प्रामोति कथं मेदेन व्यवहारः ? तत आह- ' तथापि ' परस्परंअनुगमेऽपि पुनः अत्र - आभिनिबोधिक श्रुतयोः आचार्याः- पूर्ववरयो नानात्वं भेदं रूपयंति, कथं इति चेदुच्यते-लक्षणभेदात्, परस्परं अनुगतयोः अपि लक्षणभेदात् भेदो यथा एकाकाशस्थयोः धर्मास्तिकायाऽधर्मास्तिकाययोः, तथाहि धर्माधर्मास्तिकाय परस्परं लोलीभावेन एकस्मिन् आकाशप्रदेशे व्यवस्थितौ, तथापि यो गतिपरिणामपरिणतयोः जीवपुद्गलयोः गत्युपष्टंभहेतुः जलमिव मत्स्यस्य स खलु धर्मास्तिकायो यः पुनः स्थितिपरिणामपरिणतयोः जीवपुद्गलयोः एव स्थित्युपष्टंभहेतुः क्षितिः इव झषस्य स खलु अधर्मास्तिकाय इति लक्षणभेदाद्भेदो भवति, एवं आभिनिवोधिकश्रुतयोः अपि लक्षणभेदात् भेदो वेदितव्यः, लक्षणभेदं एव दर्शयति- अभिमुखंयोग्यदेशावस्थितं नियतं अथ इंद्रियमनोद्वारेण बुध्यते - परिच्छिनत्ति आत्मा येन परिणामविशेषेण स परिणाम विशेषो ज्ञानापरपर्याय आभिनिबोधिकं, तथा शृणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थं परिच्छिनत्यात्मा येन परिणामविशेषेण स परिणामविशेषः श्रुतं मतिः पूर्वं यस्य तत् मतिपूर्वं श्रुतं श्रुतज्ञानं, तथा हि-मत्या पूर्यते प्राप्यते श्रुतं, न खलु मतिपाटवविभवमंतरेण श्रुतविभवं उत्तरोत्तरमासादयति जंतुः तथादर्शनात् । यच्च यदुत्कर्षापकर्षवशात् उत्कर्षापकर्षभाक् तत् तस्य कारणं यथा घटस्य मृत्पिंडः, मत्युत्कर्षापकर्षवशात् च श्रुतस्य उत्कर्षापकर्षो, ततः कारणं मतिः श्रुतज्ञानस्य, तथा पाल्यते-अवस्थितिं प्राप्यते मत्या श्रुतं श्रुतस्य हि दलं मतिः यथा घटस्य मृत्, तथा हि- श्रुतेषु अपि बहुषु ग्रंथेषु यत् विषयं स्मरणं ईहापोहादि वा अधिकतरं प्रवर्त्तते स ग्रंथः स्फुटतरः प्रतिभाति, न शेषः, एतच्च प्रतिप्राणिखसंवेदनप्रमाणसिद्धं ततो यथा उत्पन्नोऽपि घटो मृदभावे
अवचूरिसमलंकृतम्
116611