________________
नन्दिसत्रम् ॥८६॥
तस्याः कारणं-हेतुः सर्वद्रव्यपरिणामविज्ञप्तिकारणं केवलज्ञानमिति संबध्यते । उक्तं च-"सव्वदव्वाण पओगवीससामीसया जहाजोगं । अवचूरिपरिणामा पञ्जाया जम्मविणासादयो नेओ ॥ १॥ तेसिं भावो सत्ता सलक्खणं वा विसेसओ तस्स | नाणं विन्नत्तीए कारणं केवलं | समलंकृतम् नाणं ॥२॥" तच्च ज्ञेयानंतत्वात् अनंतं, तथा शश्वत् भवं शाश्वतं, सदा उपयोगवदिति भावार्थः । तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदावस्थायि इत्यर्थः । ननु यत् शाश्वतं तदप्रतिपाति एव ततः किं अनेन विशेषणेन ?, तदयुक्तं, सम्यक्शब्दार्थापरिज्ञानात् , शाश्वतं हि नाम अनवरतं भवदुच्यते । तच्च कियकालमपि भवति, यावद् भवति तावद् निरंतरं भवनात् , ततः सकलकालभावप्रतिपत्त्यर्थ अप्रतिपातिविशेषणोपादानं, ततोऽयं तात्पर्यार्थः-अनवरतं-सकलकालं भवतीति, तथा एकविधमेकप्रकार, तदावरणक्षयस्य एकरूपत्वात्केवलं च तत् ज्ञानं च केवलज्ञानं १ ॥२२ सू० ।।
केवल इत्यादि । इह तीर्थकरः केवलज्ञानेन 'सर्व वाक्यं सावधारणमिति न्यायात केवलज्ञानेन एव, न श्रुतज्ञानेन, तस्य शायोपशमिकत्वात् , केवलिनश्च क्षायोपशमिकभावातिक्रमात् , सर्वक्षये देशक्षयाभावादिति भावः, अर्थान् धर्मास्तिकायादीन अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य ये 'तत्र' तेषां अर्थानां अभिलाप्यानभिलाप्यानां मध्ये प्रज्ञापनायोग्याः, अभिलाप्या इत्यर्थः, तान् भाषते, नेतरान् , तान् अपि प्रज्ञापनायोग्यान् भाषते, न सर्वान् , तेषां अनंतत्वेन सर्वेषां भाषितुं अशक्यत्वात् , आयुषस्तु परिमितत्वात, किंतु-कतिपयान् एव अनंतभागमात्रान् , तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिःप्रोच्यमानः तस्य भगवतो ||॥८६॥ वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्याप्यादिनामकर्मोदयनिबन्धनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात् , स च वाग्योगो भवति न श्रुतं 'शेष' अप्रधानं द्रव्यश्रुतं इत्यर्थः, श्रोतॄणां भावश्रुतकारणतया द्रव्यश्रुतं व्यवहियते इति भावः, अन्ये त्वेवं पठति-'वइजोग