________________
नन्दिवत्रम्
॥ ८५ ॥
अह सव्वदव्वपरिणामभावविन्नत्तिकारणमर्णतं सासयमप्पडिवाई एगविहं केवलनाणं ॥ १ ॥ केवलनाणेत्थे नाउं जे तत्थ पन्नवणजोगे ते भासइ तित्थयरो वहजोगसुअं हवइ सेसं ॥ २ ॥ सेत्तं केवलनाणं सेत्तं पञ्चकखं नाणं ॥
'से किं तं परंपर' इत्यादि न प्रथमसमयसिद्धाः, [ अप्रथमाः समयसिद्धाः ] परंपरसिद्ध विशेषणं, अप्रथमसमयवर्त्तिनः सिद्धत्वसमयात् द्वितीयसमयवर्तिन इत्यर्थः । त्र्यादिषु तु द्वितीयसमयसिद्धादय उच्यते । यद्वा सामान्यतः अप्रथमसमयसिद्धा इत्युक्तं । तदेतदेव विशेषेण व्याचष्टे - द्विसमयसिद्धाः त्रिसमयसिद्धा इत्यादि । 'सेत्तमित्यादि निगमनं । तदिदं सामान्येन केवलज्ञानं अभिगृह्यते । 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतथ, तत्र द्रव्यतो 'णमिति' वाक्यालंकारे, केवलज्ञानी सर्वद्रव्याणि-धर्मास्तिकायादीनि साक्षाजानाति पश्यति । क्षेत्रतः केवलज्ञानी सर्व क्षेत्रं - लोकालोकभेदभिन्नं जानाति पश्यति, इह यद्य सर्वद्रव्यग्रहणेन आकाशास्तिकायोऽपि गृह्यते । तथापि तस्य क्षेत्रत्वेन रूढत्वाद्भेदेन उपन्यासः, कालतः केवलज्ञानी सर्व कालं -अतीता| नागतवर्त्तमानभेदभिन्नं जानाति पश्यति । भावतः केवलज्ञानी सर्वान् जीवाजीवगतान् भावान्-गतिकषांयागुरुलघुप्रभृतीन् जानाति पश्यति ॥ अथशब्दः इह उपन्यासार्थः पूर्वं उद्देशसूत्रे मनः पर्यवज्ञानानंतरं केवलज्ञानं उक्तं । तत्संप्रति तात्पर्यनिर्देशार्थ उपन्यस्यते | इत्यर्थः । सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि - जीवादिलक्षणानि तेषां परिणामाः- प्रयोगविस्रसोभयजन्या उत्पादादयः पर्यायाः | सर्वद्रव्यपरिणामास्तेषां भावः--सत्ता स्वलक्षणं स्वं स्वं असाधारणरूपं तस्य विशेषेण ज्ञापनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, परिच्छेद इत्यर्थः,
१ कालस्य पर्यायकारणत्वेन प्राधान्यविवक्षया तद्भेदपरिज्ञानौचित्या द्रव्याद् भेदेनोपन्यास इति तार्किकर्मीमांसनीयम् ।
अवचूरिसमलंकृतम्
।। ८५ ।।