________________
नन्दिनम् ॥ ८३ ॥
सिद्धा अन्ये सामान्यकेवलिनः ४, तथा स्वयंबुद्धाः सन्तो ये सिद्धास्ते स्वयंबुद्धसिद्धाः ५, प्रत्येकबुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः ६, अथ स्वयंवुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः ? उच्यते, बोध्युपधिश्रुतलिंगकृतो विशेषः, तथा हि- खयंबुद्धा बाह्यप्रत्ययमंतरेण एव बुध्यंते, स्वयं एव बाह्यप्रत्ययमंतरेण एव निजजातिस्मरणादिना बुद्धाः स्वयंबुद्धा इति व्युत्पत्तेस्ते च द्विधा तीर्थकराः तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यतिरिक्तैरधिकारः, प्रत्येकबुद्धास्तु बाह्यप्रत्ययं अपेक्ष्य बुद्ध्यते, प्रत्येकं - बाह्य वृषभादिकं कारणं अभिसमीक्ष्य बुद्धा इति व्युत्पत्तेः तथा च श्रूयते बाह्यवृषभादिप्रत्ययसापेक्षा करकंद्दादीनां बोधिः, बहि:प्रत्ययं अपेक्ष्य च बुद्धाः संतो नियमतः प्रत्येकं एव विहारन्ति, न गच्छ्वासिन इव संहताः, तथा स्वयं बुद्धानामुपधिः द्वादशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा जघन्यतः उत्कर्षतश्च । तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधः प्रावरणवर्जः, तथा स्वयं बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिंगं देवता वा प्रयच्छति गुरुसंनिधौ वा गत्वा प्रतिपद्यते । यदि चकाकी विहरणसमर्थः, इच्छा च तस्य तथारूपा जायते तत एकाकी विहरति, अन्यथा गच्छवासेऽवतिष्ठते । अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमात् गुरुसंनिधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुंचति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति । तच्च जघन्यतः एकादशांगानि, उत्कर्षतः किंचित् न्यूनानि दश पूर्वाणि, तथा लिंगं तस्मै देवता प्रयच्छति, लिंगरहितो वा कदाचिद्भवति । तथा बुद्धा: - आचार्याः तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धाः ७, एते च सर्वेऽपि केचित् स्त्रीलिंगसिद्धाः, स्त्रिया लिंगं स्त्रीलिंगं, स्त्रीत्वस्य उपलक्षणमित्यर्थः । तच्च त्रिधा, तद्यथा-वेदः शरीरनिर्वृत्तिः नेपथ्यं च तत्र इह शरीरनिर्वृत्त्या प्रयोजनं, न वेदनेपथ्याभ्यां वेदे सति सिद्धत्वाभावात्, नेपथ्यस्य चाऽप्रमाणत्वात् तस्मिन् स्त्रीलिंगे वर्त्तमानाः सन्तो ये सिद्धाः ते स्त्रीलिंग
अवचूरिसमलंकृतम्
॥ ८३ ॥