________________
नन्दिसूत्रम्
॥ ८२ ॥
अथ किं तत्सिद्ध केवलज्ञानं ९ सिद्ध केवलज्ञानं द्विविधं प्रज्ञसं, तद्यथा - अनंतरसिद्ध केवलज्ञानं च परंपरसिद्ध केवलज्ञानं च तत्र न विद्यने अंतरं समयेन व्यवधानं यस्य सोऽनंतरः स चासौ सिद्धवानंतरसिद्धः सिद्धत्वप्रथमसमये वर्त्तमान इत्यर्थः, तस्य केवलज्ञानमनंतर सिद्ध केवलज्ञानं, चशब्दः स्वगतानेक मेदसूचकः, तथा विवक्षिते प्रथमसमये यः सिद्धः तस्य यो द्वितीयसमय सिद्धः स परस्तस्यापि[यः] तृतीयसमयसिद्धः स परः, एवमन्येऽपि वाच्याः, परे च परे च इति वीप्सायां पृषोदरादय इति परंपरशब्दनिष्पत्तिः परंपरे च ते सिद्धार्थ परंपरसिद्धाः, विवक्षित सिद्धत्वप्रथमसमयात् प्राक् द्वितीयादिषु समयेषु अनंतातीताद्धां यावत् वर्त्तमाना इत्यर्थः, तेषां केवलज्ञान परंपरसिद्ध केवलज्ञानं, अत्रापि चशब्दः स्वगताऽनेक भेदसूचकः ।
अथ किं तत् अनंतरसिद्ध केवलज्ञानं १, सूरिराह - अनंतर सिद्धकेवलज्ञानं पंचदशविधं प्रज्ञप्तं, 'तद्यथा' इति उपदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेति तीथ - यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं, तच्च निराधारं न भवतीति कृत्वा संघः प्रथमगणधरो वा वेदितव्यम्, तस्मिन्नुत्पन्ने ये सिद्धाः, ते तीर्थसिद्धाः, १, तथा तीर्थस्याभावो ऽतीर्थ तीर्थस्याभावश्च अनुत्पादोऽपांतराले व्यवच्छेदो वा, तस्मिन् ये सिद्धास्ते अतीर्थसिद्धाः । तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थं उत्पन्नमासीत् । तथा तीर्थस्य व्यवच्छेद चंद्रप्रभ स्वामि सुविधिस्वाम्यपांतराले, तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धाः २ तथा तीर्थकराः सन्तो ये सिद्धास्ते तीर्थंकरसिद्धाः ३, अतीर्थकर
१. शैलेश्यबस्थापर्यन्तषर्तिसमयसमासादितसिद्धत्वस्य तस्मिन्नव समये यत् केवलज्ञानं तदनन्तरसिद्धकेवलज्ञानमिति हारिभद्रवृत्तौ । २ तीर्थंकर नामकर्मोदभावे स्थिताः तीर्थकर भावतो वा सिद्धाः तीर्थकरसिद्धाः ।
अवचूरिसमलंकृतम्
।। ८२ ।।